________________
आह्निकम् ] प्रमेयप्रकरणम्
५७ तदेवं शाक्योक्तयुक्तिकौशलदौर्बल्यात् सर्वत्र विच्छेदप्रतिभासात् स्वच्छात्मनश्च ज्ञानस्य स्वतो विचित्रत्वानुपपत्तेरर्थस्यैवायमाकार इति सिद्धम् ।
यत्त्वाकारपक्षे चोदितमेकत्रार्थे नक्षत्रं तारका तिष्य इति परस्परविरुद्धाकारसमावेशो न युक्त इति, तत्रोच्यते, अनुपपन्नमिति नः क्व संप्रत्ययो यन्न प्रमाणेनावगतं विरुद्धमपि तद् बुद्धयामहे यदेकत्र निविशमानं न पश्यामः। 5 तदिह यद्यबाधितेन ज्ञानेन विस्पष्टमाकारत्रयमेकत्र गृह्यते तत्कथमनुपपन्नं स्याद विरुद्धमिति ।
अकं सम्यक्प्रमाणपरिनिश्चितरूपमितरत् काल्पनिकमिति प्रतीयते तदेवमस्तु को दोषः ? दृष्टश्च चित्रादावनेकवर्णसमावेशः, न चैकत्र विरोधमविरोधं वा दृष्ट्वा सर्वत्र तत्कल्पनमुचितम्, अबाधितावगतिनिबन्धना हि 10 वस्तुस्थितयो भवन्ति न कल्पनानिर्मिताः ।
अपि वा वस्तुताद्रूप्यसदसत्तानपेक्षया ।
शब्दप्रयोगसाधुत्वमन्वाख्यायेत केवलम् ॥ दारा इति नैकस्याः स्त्रीव्यक्तेः पुंस्त्वं बहुत्वं वा विद्यते शब्दस्त्वेष तत्र प्रयुज्यमानः साधुर्भवति।
नार्थासंस्पर्शिता चास्य तावतां व्यवतिष्ठते । असौ तदात्मकं वस्तु तथा शक्नोति भाषितुम् ।। परिवाटप्रभृतीनाञ्च कुणपादिप्रतीतयः । अर्थस्यानेकशक्तित्वान्नावहन्त्यर्थशून्यताम् ॥ किं न भक्षयितुं शक्या नारी कौलेयकेन सा । किं वा न शमयत्येषा कामिनो मदनज्वरम् ॥ शवाद् वा केन रूपेण सा विशिष्येत योगिनः ।
धीत्रयन्तु न सर्वेषामभावात् सहकारिणः ।। प्रतिप्राणिनियतानेकविधवासनासहकारिसापेक्षो हि तस्य ज्ञानस्यात्म
दृष्टश्च चित्रादावनेकवर्णसमावेश इति । न चासौ दृष्टत्वादेवापारमार्थिक इति । शेषः।
तथा शक्नोति भाषितम् बहुवचनादियुक्तो नान्यथा । न्या० म०८