________________
५६
[ नवमम्
कुतस्त्य एष नियमो यदसत्त्वाविशेषेऽपि रजतादि सम्प्रतीयते न खरविषाणादीति । अयञ्च द्वयोरसत्त्वयोविशेषो देशान्तरादिषु सतोऽर्थस्य स्मरणाद्युपारोहेण प्रतिभासमानता दृश्यते, न त्वेकान्तासत इति । एवं देशकालयोरपि सदसद् विकल्पचोद्य ं परिहर्तव्यम् । अतश्च किञ्चिदपि नात्यन्तासदर्थग्राहि ज्ञानमस्तीति किं दृष्टान्तबलेन सर्वत्रार्थशून्यता कल्प्येत ? तस्मान्नासत्ख्यातिः ।
5
10
न्यायमञ्जय
20
आत्मख्यातिखण्डनम्
आत्मख्यातेस्तु निराकरणाय सोऽयमियान् कलिर्वर्तते, तत्र च बहुशः कथितं ग्राहकाद् विच्छिन्नमेव ग्राह्यमवभासते नीलंमिदमिति । न तु तदभेदेन नीलमहमिति । भ्रान्तिज्ञानेषु तदर्थंसन्निधानाद् भ्रान्तत्वमस्तु नात्मतत्त्वग्रहणमिति यच्चोद्यते 'तदन्तर्ज्ञेयरूपं हि बहिर्वदवभासते ' इति सेयं विपरीतख्याति - रेवाङ्गीकृता स्यात्, तद्वरमेव तपस्विनी साधीयसी ।
1
अथ कथ्यते ग्राहकात् सत्यं विच्छिन्नं ग्राह्यं तत्तु ज्ञानरूपमेवेति, तत्र विच्छिन्नमिति प्रियमावेदितं ज्ञानत्वे तु तस्य का युक्ति: ? न च ज्ञानयोर्युगपदुत्पन्नयोर्वा क्रमभाविनोर्वा ग्राह्यग्राहकभाव उपपद्यते, यौगपद्य सव्येतर15 गोविषाणवद् ग्राह्यग्राहकनियमाभावात् । क्रमपक्षेऽपि पूर्वमुत्तरस्य ग्राहकात् तदुत्पत्तिस्तद्ग्रहणकालप्रतीक्षणात् क्षणिकतां जह्यात् । उत्तरमपि यदि पूर्वस्य ग्राहकं तथापि सैव वार्ता, तावत्कालस्थितिमन्तरेण तद्ग्राह्यतानुपपत्तेः । न च ज्ञानत्वं नाम सामान्यं ग्राह्यग्राहकयोरनुगतं गोत्वमिव शाबलेयादौ भाति, अतो विच्छिन्नश्चेद् ग्राहकाद् ग्राह्यः सोऽन्य एव भवेदिति न
ज्ञानस्यायमाकारः ।
तमेव ।
यत्तु संसर्गधर्म आकारो न भवति इति भाषितम्, न कुण्डदधिवत् कश्चित् संसर्गेऽस्त्यर्थबोधयोः । तत्कृताकारवत्ता वा प्रागनाकारयोस्तयोः ॥
तद्य
न च ज्ञानत्वं सामान्यमिति । यदि हि ज्ञानत्वमुभयोरनुगतं प्रतिभासेत ज्ञानयो
25 ग्रह्यग्राहकत्वं कथञ्चित् कल्प्येत । अतो विच्छिन्नश्चेदिति । यत एव ज्ञानत्वे च ग्राह्यां
शस्य परामर्शो नास्ति तत एव ।