________________
आह्निकम् ]
प्रमेयप्रकरणम् न त्वत्यन्तासदर्थविषयः । तथा हि द्विविधा भ्रान्तिर्बाह्येन्द्रियजा मानसी च । तत्र बाह्य न्द्रियजे भ्रमज्ञाने विषयदोषादिन्द्रियदोषाद् वा समुत्पद्यमाने न क्वचिन्निरालम्बनता दृश्यते । भास्वररूपसादृश्येन हि विषयदोषेण शुक्तिकारजतमिति परिस्फुरति । मरुस्थलपतितोत्फलितं सावित्रं तेजस्तरलतरङ्गसारूप्येण पय इति चकास्ति । इन्द्रियदोषादपि पित्तोपहतरसनस्य तिक्ततया 5 शर्करावभासते, तिमिरसीमन्तितनयनवृत्तेश्चन्द्रमण्डलमेकमपि द्विधा प्रतिभाति, तिमिरकणनिकरविवरविरचितप्रसृताश्च नयनरश्मयः सूर्यांशुसंवलिताः सन्तः सूक्ष्मतया केशकूर्चकाकाराः प्रतिभान्तीति ।
अन्तःकरणदोषेण विभ्रमो यस्तु जायते । असत्यपि महेलादौ पुष्पेषु मुषितात्मनाम् ॥
10 सोऽपि कश्चिद्विषयदोषहा भवति कुत्रचित् । कोमलानिलकल्लोलवेल्लिते बालपल्लवे ॥ अनपेक्षिततत्तुल्यपदार्थस्यैव या पुनः ।
मानसी मन्मथोन्मादमहिम्ना मानिनीमतिः ॥ तस्यामपि रोगादिवासनाबलोपप्लवमानसंवृत्याद्युपस्थापितदेशकाल- 15 व्यवहितोपलब्धपूर्वपुरन्ध्रिरूपसमुल्लेखो न त्वेकान्तासतः खरविषाणादेरिव, प्रतिभानिद्रादिमनोदोषजन्मनि स्वप्नेऽपि दृष्टपूर्वस्यैव तस्याकारस्योल्लेखः ।
ज्वलज्जलगलद्वह्निद्रवदद्रयादिदर्शने । रूपमन्यस्थमन्यत्र वेत्ति न त्वसदेव तत् ॥ तदेवं भ्रान्तबोधेषु नास्त्यत्यन्तासतां प्रथा ।
देशकालान्यथात्वं तु केवलं भाति वस्तुनः ।। ___ ननु तत्रासतोऽर्थस्य प्रतिभासे देशान्तरादिषु सत्त्वं क्वोपयुज्यते, देशान्तरेऽपि सन्नसन् वा ? तत्र तावन्नास्त्येव सोऽर्थः, न च द्वयोरसत्त्वयोः कश्चिद् विशेषः । देशकालावपि कि सन्तावसन्तौ वा प्रतिभासेते इति विकल्पनायां तथा तयोरपि तुल्यो दोषः । ___ मैवम्, भवतोऽप्यसत्ख्यातिवादिनः किं सर्वत्रैव तदर्थासत्त्वं सम्मतम्, उत तद्देश एव ? तत्रासन्निधानमात्रेण तावत्क इव तव स्वार्थः । सर्वत्रासतस्त्ववभासे
20