________________
न्यायमञ्ज
[ नवमम् अनागते देवदत्ते न देवदत्तज्ञानमुदपादि तस्मिन्नागते तदुत्पन्नमिति तद्भावभावित्वात् तज्जन्यं तदवसीयते । इत्थश्च तज्जन्यत्वेन तत्र नियमसिद्धेरलमाकारकल्पनया । एतेन पुरुषप्रवृत्तिरपि नियतविषया व्याख्याता, साधकतमत्वं तु सामग्रयाः प्रमाणसामान्यलक्षणे निर्णीतमेव ।
यस्तु लौकिकव्यपदेश उदाहृतः, सोऽपि व्यभिचरति नीलोऽयं यतस्तद्विषयं ज्ञानमुत्पन्नमित्यपि न तद् व्यपदिशन्ति लौकिकाः, तस्मात् अर्थे सत्यपि साकारं ज्ञानमेषितव्यम्' इति यदुक्तं तदनुपपन्नम् ।
यदप्यवणि 'सहोपलम्भनियमादभेदो नीलतद्धियोः' इति, तदपि बालभाषितमिव नः प्रतिभाति, अभेदे सहार्थानुपपत्तेः, अथ ‘एकोपलम्भनियमात्' 10 इति हेत्वर्थो विवक्षितः, तदयमसिद्धो हेतुर्नीलादिग्राह्यग्रहणसमये तद्ग्राहकानुप
लम्भात् । ग्राहकाकारानुवेधरहिततद्विच्छिन्नो बाह्यग्राह्यमात्रप्रतिभास एवायं नीलमिदमित्यादिनादर्शितः । क्वचिच्च ग्राह्याकारानुपश्लिष्टकेवलग्राहकावमर्शनमपि दृश्यते, न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति हीति । तदेवमितरे
तरविभक्तज्ञानार्थाकारसंवेदनात् कथम् ‘एकोपलम्भनियमादभेदो नीलतद्धियोः' 15 इत्युच्यते। नीलतद्धियोरिति च वदता भवताप्येष भेद एव निर्दिश्यते । परमता
नुवादमात्रमेतदिति चेत्, न, अभेदे पृथङ् निर्देशस्याप्यघटमानत्वात् । तस्मादपि . न ज्ञानस्यायमाकारः ।
यदप्युक्तम् 'असत्यपि बाह्येऽर्थे स्वप्नगन्धर्वनगरमायादिषु ज्ञानस्याकारवत्ता दृश्यत इति तस्यैवायमाकारो युक्तः' इति, तदपि दुराशामात्रम्, सर्वत्र ज्ञानाद् विच्छिन्नस्य ग्राह्याकारस्य प्रतिभासनात् । तथा हि, भ्रमज्ञानेषु चतुष्टयी गतिरात्मख्यातिरसत्ख्यातिरख्यातिविपरीतख्यातिर्वा । तत्र रजतमिदमिति सामानाधिकरण्येनैकार्थप्रतिभासात् तन्मते च संवित्तेरपरोक्षत्वाद् रजताधिगमाभिधानेन तदर्थिनस्तत्र प्रवृत्तेर्बाधकप्रत्ययस्य तथाविधबोधनिषेधपरत्वेन
प्रादुर्भावात् न तावदख्यातिरिति प्रागेव प्रसाधितमेतत् । 25 असत्ख्यातिखण्डनम्
असत्ख्यातिरपि नास्ति, एकान्तासतः खपुष्पादेः प्रतिभासायोगात् । देशकालव्यवहितानुभूतपूर्वपदार्थविषय एव भ्रान्तोऽपि प्रत्ययः प्राणभृतो भवति,
20