________________
आह्निकम् ]
प्रकरण
५३
न च नित्यपरोक्षा बुद्धिरनुमातुमपि शक्यत इति च विचारितमेव । तदलमनया कथया, किमिति शाक्यमुत्सृज्य श्रोत्रियमिदानीमभियुञ्ज्महे ।
अतश्च यदुक्तं ज्ञानपृष्ठावमर्शदर्शनाज्ज्ञानग्रहणपूर्वकमर्थंग्रहणमिति, तन्न सार्वत्रिकमपि तु क्वचिदेव ज्ञाननिष्ठार्थसंवेदनात् तथाभ्युपगम्यते । तस्मादर्थग्रहणात् पूर्वं ज्ञानस्यानवभासान्निराकारत्वावसायविरहाच्च ज्ञानस्यैवायमाकार इति कदाशाप्रलपितमेतदरुणाम्बराणाम् ।
यत्पुनरभ्यधायि 'ज्ञानाकारपक्षे कल्पना अल्पीयसी' इति, तत्र यथोक्तनीत्या प्रत्यक्षगम्ये बाह्ये ग्राह्येऽर्थाकारे कल्पनोक्तिः कीदृशी ? कीदृशं वा तदल्पत्वं महत्त्वमित्युभयसिद्धमपि यदवादि ज्ञानस्य ? तत्र यदि प्रमाणायत्ता वस्तुस्थितिः, अर्थोऽप्युभयसिद्ध एव इच्छाद्वेषनिबन्धनायान्तु वस्तुस्थिती 10 ज्ञानमपि कथमुभयसिद्धं स्यादिति यत्किञ्चिदेतत् ।
यत् पुनरिदमभिहितमभ्युपगम्यापि बाह्यमर्थम्, अप्रत्याख्येयः प्रतिकर्मव्यवस्थासिद्धये ज्ञानस्याकारयोग इति, तदपि न साम्प्रतम्, प्रतिकर्मव्यवस्थायाः प्रकारान्तरेणाप्युपपत्तेः ।
यदप्यनेकसन्निधाने नीलज्ञानमुपजायते यद्यपि बोधरूपत्वमशेषसाधारणं तथापि नीलेनैव कर्मकारकेण तदुपजनितमिति नीलनिष्ठमेवावतिष्ठते । चक्षुरादिनापि तज्जनितमिति चेत्, सत्यं जनितं न तु कर्मभूतेन तदुत्पाद्यत इति तदेकविषयमेव भवति । कुत एष नियम इति चेत्, वस्तुस्वभावत एव, आंकारपक्षेऽपि समानोऽयं पर्यनुयोगः ।
यदुच्यते किमिति नीलमेव कर्म कारकं किमिति वा कर्मविषयमेव ज्ञानमिति, तत्र वस्तुस्वभावैरुत्तरं वाच्यम् । आकारमपि च ज्ञानमुपाददानमर्थस्यैव कथमुपाददीत न कारकान्तरस्येत्यत्रापि वस्तुस्वभाव एव शरणमिति । अर्थस्य च ज्ञानजनकत्वमन्वयव्यतिरेकाभ्यामवगम्यते ।
यदा हि देवदत्तार्थी कश्चिद् व्रजति तद्गृहम् । तत्रासन्निहितं चैनं गत्वापि न स पश्यति ॥ क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते । तत्र तत्सदसत्त्वेन तथात्वं वेत्ति तद्धियः ॥
5
15
20
25