________________
५२
न्यायमज
[ नवमम् रूपत्वाभावात् । अतश्च स्वसंवेदनपक्षो न युक्तियुक्तः स्वप्रकाशस्य कस्यचिदप्यदृष्टत्वात् ।
ननु ज्ञानशब्ददीपास्त्रयः प्रकाशाः स्वपरप्रकाशा इत्याहुः, तदयुक्तं शब्ददीपयोः स्वग्रहणेऽर्थप्रकाशने च सामग्रयन्तरसव्यपेक्षत्वात् । शब्दोऽर्थप्रकाशने समयग्रहणमपेक्षते, स्वप्रकाशने च श्रोत्रादि । दीपोऽपि चक्षुराद्यपेक्ष एव गृह्यते ग्राहयति चार्थम् । इयांस्तु विशेषो घटादिग्रहणे आलोकसापेक्ष चक्षुः प्रवर्तते आलोकग्रहणे तु निरपेक्षमिति । नैतावता दीपस्य स्वप्रकाशता स्यात् । इत्थञ्च मार्जारादिनक्तंचरचक्षुरपेक्षया सर्व एव घटादयः स्वप्रकाशाः
स्युः । ज्ञानस्य तु परप्रकाश्यत्वमेव दृश्यते न स्वप्रकाशत्वम्, अर्थप्रकाशकाले 10 तदप्रकाशस्य दर्शितत्वात् ।
मुधैव, तस्माद् गणितास्त एते त्रयः प्रकाशाः स्वपरप्रकाशाः । आत्मप्रत्यक्षवादिनां त्ववस्थाभेदेन ग्राह्यग्राहकांशयोर्भेदो विद्यत एवेति सर्वथा न स्वप्रकाशं विज्ञानम् ।
यदप्यभिहितमुत्पद्यमानमेव ज्ञानमनपेक्षत्वादप्रतिबन्धत्वाच्च तदैव 15 गृह्यते नवा कदाचिदिति, तन्न साम्प्रतम्, तदानीं तद्ग्रहणसामग्र्यभावात्,
न चाविबन्धमात्रेण प्रतीतिरवगम्यते ।
उपायविरहेणापि तदा ज्ञानस्य न ग्रहः ॥ न च जैमिनीया इव वयं ज्ञानं नित्यपरोक्षमाचक्ष्महे । ज्ञातो मयायमर्थ इति कालान्तरे तद्विशिष्टार्थग्रहणदर्शनात् ।
शुक्ल: पट इति ज्ञाने यथासौ भाति तद्गुणः । तथा ज्ञातोऽर्थ इत्यत्र भात्यर्थो धीविशेषणः ।। न विशेष्ये च संवित्तिरगृहीतविशेषणा । नानुसायधियं वेत्थं प्रतीयेत भ्रमाग्रहात् ॥
सर्व एव घटादयः स्वप्रकाशाः स्युरिति । यदि हि दीपो दीपान्तरं नापेक्षत इति 25 स्वप्रकाशस्तहि मार्जारचक्षुषा प्रकाशनिरपेक्षेण गृह्यन्त इति अन्येनापि पदार्था गृह्ममाणाः
स्वप्रकाशाः स्युरिति।