________________
आह्निकम् ]
प्रमेयप्रकरणम्
प्रकाशितं भवतीति न प्रकाशो ग्रहणमपेक्षते ।
ननूक्तम्,
अत्र नानुपलब्धायां बुद्धावर्थः प्रकाशते । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ॥ इति ।
५१
अप्रत्यक्षोपलम्भस्य च प्रत्युतार्थदृष्टिः सिद्धयति ।
5
तदयुक्तम्, उपलम्भोत्पाद एवार्थदृष्टिर्न पुनरुपलम्भदृष्टिः ।
ननूपलब्धेरग्रहणे तदुत्पाद उत्पन्नोपलम्भस्याप्यर्थः प्रत्यक्षः स्यादिति सर्वंसर्वज्ञत्वप्रसङ्गः, तदिदमतिसुभाषितम् । अर्थप्रकाशात्मैव खलूपलम्भः स - कथमनुत्पन्नादुत्पन्नेन विशेष्यते ? तस्मादर्थप्रत्यक्षीकरणात्मकत्वाज्ज्ञानस्य उत्पाद एवार्थप्रत्यक्षता, न तद्ग्रहणम् इत्यगृहीतमेव ज्ञानमर्थप्रकाशकमिति युक्तम् ।
यत्त्वरूपत्वाज्ज्ञानस्य पूर्वं ग्रहणमुच्यते तच्चक्षुरादिभिरनैकान्तिक
मित्युक्तम् ।
गृहीतं यदि च ज्ञानं भवेदर्थप्रकाशकम् । धूमवद्दीपवच्चेति वक्तव्यं यदि धूमवत् ॥ भवेदर्थानुमेयत्वं यत्त्वयैव च दूषितम् । आकारद्वयसंवित्तिविरहान्न च दीपवत् ॥ घटं दीपञ्च पश्यामीत्यस्ति द्वितयवेदनम् । न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः ॥
10
15
20
यदपि प्रकाशत्वाज्ज्ञानस्य दीपवत् पूर्वग्रहणमुक्तम्, तदपि व्याख्येयम् । प्रकाशत्वादिति कोऽर्थः ? प्रकाशयतीति प्रकाशत्वमिति तच्चक्षुरादिभिरनकान्तिकमुक्तमेव । अथ प्रकाशनं प्रकाशस्तर्हि प्रकाशत्वादित्यसिद्ध हेतुर्न ह्यर्थग्रहणकाले बुद्धेः प्रकाशनमस्ति । अथ प्रकाशशब्दो बोधपर्याय एव प्रकाशत्वाद् बोधरूपत्वादित्यर्थस्तदा साधनविकलो दृष्टान्तः, प्रदीपस्य बोधभवेदर्थानुमेयत्वं यत् त्वयैव च दूषितमिति । " बाह्यसिद्धिः स्याद् व्यतिरेकतः” इति सौत्रान्तिकमतं दूषयता त्वया दूषितमिति ।
25