________________
5
10
20
न्यायमञ्जर्य्यां
[ नवमम्
अपि च ज्ञानमहङ्कारास्पदमानन्दादिस्वभावं स्वकर्मणि च सव्यापारमिव भवद्भिरभ्युपगतम्, अर्थस्तु नैवमात्मक इति कथमनयोरभेदः । यद्यपि ज्ञानमिदमर्थ इत्येवमाकारद्वयप्रतिभासो नास्ति तथाप्ययमेकोऽप्याकारः प्रतिभासमानः प्रकाश एव प्रतिभाति न प्रकाशकः । इदं नीलमिति ग्राहकाद् विच्छिन्न एव ग्राह्याकारोऽवभासते, न त्वहं नीलमिति तदैक्येनावभासोऽस्ति ।
ननु नैव ग्राह्यग्राहकयोरन्यत्वमिति योऽयं ग्राह्यावभास इति भवता अभ्युपगतः स एव ग्राहकावभासः, ग्राहकादन्यो हि ग्राह्यो जडात्मा भवेत्, ग्राहकस्तु प्रकाशस्वभावो ग्राहकत्वादेव द्वयप्रतिभासश्च नास्तीत्युक्तम् । ततोऽन्यतरस्य प्रकाशने जडप्रकाशयोः कतरस्यावभासितुं युक्तमिति चिन्तायां बलात् प्रकाश एव प्रकाशते न जडः, निराकारश्च न प्रकाशः प्रकाशत इति, 15 तस्मिन् साकारे प्रकाशमाने ततो जडात्मा तदतिरिक्तोऽर्थः स्यात् ।
25
५०
अपि च प्रकाश्यस्य नीलादेः प्रकाशकबोधाधीनं युक्तं नाम ग्रहणम् बोधस्य तु तद्ग्राहकस्य तदा किं कृतं ग्रहणमिति चिन्त्यम्, न बोधान्तरनिबन्धनम्, अनवस्थाप्रसङ्गात् नापि स्वप्रकाशं ज्ञानम् अहं नीलमित्यंप्रतिभासात् ।
तदिदमपेशलम्, उपायेनोपेयनिह्नवस्याशक्य करणीयत्वात् । रूपस्य हि . प्रकाशकं चक्षुर्न चक्षुरेव प्रकाशतामित्युक्त्वा रूपमपह्नोतुं शक्यते । तदिदमर्थस्य मूर्तिद्रवत्वकाठिन्यादिधर्मविशेषितात्मनस्तद्विपरीतस्वच्छस्वभावम्, ज्ञानं प्रकाशकं स्वभावत्वात् । चक्षुर्जन्यो हि प्रकाशो नाम ज्ञानमुच्यते । न चागृहीतः प्रकाशः प्रकाश्यं प्रकाशयतीति । चक्षुर्जन्यः प्रकाशो नाम ज्ञानमुच्यते स तु प्रकाशो रूपादिविषयप्रकाशो न प्रकाशप्रकाशः । न हि चक्षुषा प्रकाशः प्रकाश्यतेऽपि तु रूपं प्रकाश्यते । तत्र यद्रूपमित्युच्यते स विषयो ग्राह्यः । यत् तत्प्रकाशते इत्युच्यते स प्रकाशो ज्ञानं ग्राहकम् । तदुत्पत्तिमात्रेण च रूपं
अहं नीलमित्यप्रतिभासादिति । ग्राहकस्यापि साकारत्वाभ्युपगमात् तदीयस्य
'नीलाकारस्य 'अहं' शब्दसामानाधिकरण्येनाप्रतिभासनात् ।
तदिदमर्थस्य मूर्तिद्रवत्वेति । तद्विपरीतस्य गुणकर्मसामान्यादेः ।