________________
5
आह्निकम् ]
प्रमेयप्रकरणम् नाम कश्चिदिति । ज्ञान एव चैकत्रायं प्रमाणप्रमेयप्रमितिव्यवहारः परिसमाप्यते । तस्य हि विषयाकारता प्रमेयम्, ग्राहकाकारता प्रमाणम्, स्वसंवित्तिश्च फलमिति । यथोक्तम्,
यदाभासं प्रमेयं तत् प्रमाणफलते पुनः ।
ग्राहकाकारसंवित्त्योस्त्रयं नातः पृथक् कृतम् ॥ इति। तदिदमनाद्यविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञानमेव ग्राह्यग्राहकसंवित्तिभेदवदिव लक्ष्यते । अविद्याविरतौ तु स्वच्छमेव तत् सम्पद्यते, न किञ्चिद्वेति । तदुक्तम्,
नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयमेव प्रकाशते ॥ अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ।। इत्यर्थरूपरहितं संविन्मात्रं किलेदमिति पश्यन् ।
परिहृत्य दुःखसंसृतिमभयं निर्वाणमाप्नोति ।। विज्ञानाद्वैतवादखण्डनम्
अत्राभिधीयते, न खल्वेक एव बोधात्मा ग्राह्यग्राहकोभयस्वभावो भवितुमर्हति ग्राह्यग्राहकरूपयोरितरेतरविसदृशत्वेनैकत्र समावेशानुपपत्तेः । तथा हि नीलज्ञानं पीतज्ञानं शुक्लज्ञानमिति नीलपीताद्युपजनापायेऽप्यनुवर्तमानबोधरूपता नीलादिविलक्षणान्वयव्यतिरेकाभ्यामवधार्यते ।
15
तस्या नानुभवोऽपर इति । अनुभव इति ग्राहकांशमाह । ग्राह्यग्राहकवैधुर्यादिति। 20 ग्राह्यग्राहकलक्षणवैकल्यादित्यर्थः । उत्पत्तिसारूप्याम्यां हि बाह्यस्य ग्राह्यत्वं व्यस्थापितम्, तत उत्पत्तेस्तत्स्वरूपत्वाच्च बाह्यं ग्राह्यं ज्ञानञ्च ग्राहकमिति । तदेतद् ग्राह्यग्राहकयोर्लक्षणं विधुरम्, व्यभिचारादसम्भवाच्च । तथा च समनन्तरप्रत्ययादुत्पद्यते तज्ज्ञानं तत्स्वरूपञ्च, अथ तस्य न ग्राहकमिति व्यभिचारः । असम्भवस्तु ज्ञाने स्थूलस्याऽऽकारस्य प्रतिभासाद् बहिस्त्ववयव्यादेरसत्त्वादिति ।
न्या० म०५
25