________________
४८
न्यायमञ्ज
[ नवमम् विभवेनतत्तदनेकाकारकालुष्यरूषितवपुरिवप्रकाशते। ज्ञानवासनाभेदसन्तानयोश्च बीजाङकुरवदनादित्वान्नास्य पर्यनुयोगस्यावसरः 'कुतो वासना प्रवृत्ता' इति । तस्मादनादिवासनावैचित्र्यरचितज्ञानवैचित्र्योपपत्तेः कृतमनुमेयेनापि बाह्य नार्थेनेति ज्ञानस्यैवायमाकार इति सिद्धम् । अतश्च ज्ञानमर्थरहितमपि गन्धर्वनगरमायादिषु विस्पष्टमुपलभ्यते इत्यन्वयव्यतिरेकाभ्यामपि ज्ञानाकारत्वमवगच्छामः । यदि च ज्ञानादर्थः पृथगवस्थितात्मा भवेज्ज्ञानान्तरेणाप्यसावुपलभ्येत न चैवमस्ति । तस्मादभेद एव ज्ञानार्थयोः । तथाह,
___'सहोपलम्भनियमादभेदो नीलतद्धियोः' । इति ।
न च ज्ञानार्थसंसर्गधर्म आकारो भवितुमर्हति, यदि हि पृथगर्थमनाकार 10 पृथक् च ज्ञानमनाकारमुपलभ्य संसृष्टयोर्ज्ञानार्थयोराकारवत्तामुपलभेमहि
तत इममाकारं संसर्गधर्म प्रतिपद्यमहि, न त्वयमस्ति क्रमः । अर्थरहितत्वेऽपि च स्मरणस्वप्नादिज्ञानानामाकारवत्त्वमस्तीत्युक्तम्, अतः कथं संसर्गधर्म आकारः ?
अपि च नक्षत्रं तारका तिष्य इति कथमेकस्मिन्नर्थे परस्परविरुद्धलिङ्गसमावेशः ? परिव्राजककामुककौलेयकानाञ्च कथमेक एव वनितारूपोऽर्थः कुणप इति कामिनीति भक्ष्य इति च प्रतिभासत्रितयविषयतामनुभवेत् ? दारा इति कथमेकैव स्त्रीव्यक्तिः पुंवचनबहुवचनविषयतां यायात् ? षण्णगरीति च कथं बहूनामन्यलिङ्गानामेकता स्त्रीलिङ्गता च भवेत् ? ह्रस्वदीर्घयोश्च कथं परस्परापेक्षग्रहणयोरर्थेनैकतर आकारः पारमार्थिकः स्यात् ? ज्ञानानान्तु भिन्नत्वाद् विचित्रवासनाभेदसहकारिरूपानुविधानेन जायमानानां न कश्चिदपि विरोधः । तस्माज्ज्ञानमेवेदं सर्वत्र तथा तथा प्रतिभाति न तद्व्यतिरिक्तोऽर्थो
20
षण्णगरीति च कथं वहूनामन्यलिङ्गानामिति । अन्यलिङ्गानां नपुंसकलिङ्गानाम्, तैश्च नगरैस्तन्तु भिरिव पटैकस्यानारम्भात् तेषामपि समुदायरूपत्वात् परमार्थसतामभावात् ।
___ ह्रस्वदीयोश्च परस्परापेक्षग्रहणयोरिति । किञ्चिदन्यापेक्षया ह्रस्वमपरापेक्षया च दीर्घमिति ।