________________
आह्निकम्
प्रमेयप्रकरणम्
इत्थं सत्यपि बाह्यार्थे ज्ञानस्याकारकल्पना । भवेदेवेति तत्रैव सन्तोष्य स्थीयतां वरम् ॥
ये तु ज्ञानस्य स्वतः स्वच्छस्वभावत्वेन नीलपीताद्यवभासः परोपाधिरेव भवितुमर्हति स्फटिकस्येव लाक्षादिनारुणिमाद्यनुवेधः । अतः पृथगननुभूयमानोऽपि बाह्योऽर्थः साकारज्ञानावभासान्यथानुपपत्त्यानुमीयते । यथोक्तम्, 5 'बाह्यसिद्धिः स्याद् व्यतिरेकत' इति ।
तदिदमनुपपन्नम्, अन्वयानुपलब्धेः ।
अर्थे ज्ञानं हि साकारं निराकारं तदत्यये । नित्यानुमेयबाह्यार्थवादी ज्ञानं क्व दृष्टवान् ॥ लाक्षास्फटिकादौ तु तथा युक्तम्, तदनुरक्तस्फटिकावलोकनात् ।
10
इह पुन:,
अर्थेन रज्यमानं हि निराकारं निसर्गतः । ज्ञानं न खलु पश्यामो लाक्षया स्फटिकं यथा ॥
४७
आकारद्वयप्रतीतिर्हि नास्तीत्युक्तम्, अभ्युपगमे वा दुरुत्तरमनवस्थादूषणम्, अर्थाकारश्च प्रत्यक्षस्तत्कृतश्च ज्ञानाकार: प्रत्यक्ष इत्युच्यमानेऽर्थाकारस्तावत् 15 साकारेण ज्ञानेन गृहीतः, स इदानीं ज्ञानाकारोऽपि, ग्राह्यत्वात् साकारज्ञानान्तरग्राह्य एव स्यादित्यनिष्टम् ।
अथ स्वप्रकाशं तत् साकारं ज्ञानमिष्यते तेन ज्ञानान्तरानपेक्षणान्नानवस्थेति, तर्हि स्वप्रकाशसाकारज्ञानव्यतिरिक्तार्थाकारानवभासात् तदेवास्तु कुतो द्वितीय इदानीमर्थाकारः ? न चान्यथानुपपत्त्यापि तत्कल्पना युक्तिमती, न हि राजशासनमिदमर्थेनाकारवता भवितव्यमिति । ज्ञानमेव नीलाद्याकारं यदि भवेत् को दोषः स्यादिति । नीलाद्याकारयोगादर्थः स इति चेत्, संज्ञायां विवाद इत्युक्तम् । द्वितीयस्याभावात् स्वच्छत्वाज्ज्ञानस्य कालुष्यमन्यकृतमिति चेद् अविद्यावासनाकृतं तद् भविष्यति । स्वतः स्वच्छमपि ज्ञानमनाद्यविद्यावासना
20
बाह्यसिद्धिः स्याद् व्यतिरेकत इति । असति बाह्ये तदाकारस्य ज्ञानस्यानु- 25 सादादित्यर्थः ।