________________
न्यायमञ्ज
[ नवमम् श्रान्तो विरंस्यति भवान्, अर्थन्तु न गृहीतवानेव । प्रकाशाग्रहणे तत् प्रकाश्यपरिच्छेदायोगादित्येवं न कदाचिदर्थग्रहणं स्यात् । तस्मादर्थग्रहणवादिनापि पूर्वं ज्ञानग्रहणमवश्याश्रयणीयम् । यथोक्तम्,
'अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति' ॥ इति । अतश्चैतदेवं ज्ञानपृष्ठेन चोत्तरकालमवमर्शदर्शनात्, ज्ञातो मयायमर्थ इति हि प्रत्यवमृशन्तः प्रमातारः प्रथमं ज्ञानग्रहणमनुमोदन्ते, न ह्यगृहीतविशेषणा विशेष्यबुद्धिर्भवति । तस्मादपि पूर्वं ज्ञानग्रहणमिति सिद्धम्, ज्ञानञ्च ग्राह्यमाणमाकाररहितं ग्रहीतुमशक्यमिति बलात् साकारमेव तद् ग्रहीतव्यम् ।
साकारे च ज्ञाने गृहीते सति द्वितीयकारणाभावात् कुतो ज्ञानातिरिक्तो 10 बाह्योऽर्थः ? अतश्च साकारं ज्ञानमाकारवत्तामन्तरेणास्य प्रतिकर्मव्यवस्था
नपपत्तेः, कल्पयित्वापि बाह्यमर्थमवश्यमाकारवत्ता विज्ञानस्य विषयनियमसिद्धये वक्तव्या। नीलज्ञानं हीदमनेकसन्निधाने समुपजायमानं कथमखिलतदितरपदार्थपरिहारेण केवलनीलानुलग्नतामवलम्बेत, बोधस्वभावतायाः सर्वान् प्रत्यविशिष्टत्वात् । प्रवृत्तिरपि प्रेक्षापूर्वकारिणां कथं तदेकविषयैव स्यात् । न च नीलजनितत्वेनार्थत एष तदधिगतिनियम इति कथयितुमुचितम्, आलोकलोचनादिकारकान्तरजनितत्वस्यापि भावे तद्विषयत्वप्रसङ्गात् । नीलाकारतैव नीलविषयत्वव्यवस्थाहेतुर्न निमित्तान्तरम् । आह च,
तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः ।
भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते ॥ तत एवाकारग्रहणमेवातिशयमाश्रित्य तमबर्थसमर्थने सति साधकतमं ज्ञानमेव प्रमाणं भविष्यति, अपरथा कारकातिशयदर्शनाभावे तत्तत्साधकतमत्वस्य दुरुपपादत्वात्, साकारज्ञानसाक्षी च लौकिकोऽपि दृश्यते व्यवहारः । एवञ्च वक्तारो भवन्ति लौकिकाः 'नीलोऽर्थोऽयं यतोऽत्र तदाकारं ज्ञानमुत्पन्नमिति' । तेन प्रतिकर्मनियमान्यथानुपपत्तेरवश्यं साकारमेव ज्ञानम् ।
20
26
येन प्रतिकर्म विभज्यते। प्रतिकर्म प्रतिविषयं विभज्यते विभक्त उत्पद्यते ।