________________
आह्निकम् ]
प्रमेयप्रकरणम् उच्यते, इदं तावत् परीक्ष्यतां यदेतत् प्रत्यक्षविज्ञानं नीलमिदं पीतमिदमुत्पद्यते तत्र किमेक आकारः प्रकाशते उत द्वितीय इति ? यदि द्वितीयोऽवभाति अयमर्थो नीलमिदं तज्ज्ञानमिति तत् किमत्र विचार्यते, जितं भवद्भिर्जितस्य यदापद्यते तदस्मासु विधीयताम् ।
अथैक एव आकारः प्रथते ? तॉस्ति विचारावसरः कस्यायमाकारः 5 किमर्थस्य किं ज्ञानस्येति । स चैवं विचार्यमाण आकारो यद्यर्थस्येति स्थास्यति तद्भवन्तो जेष्यन्ति, ज्ञानाकारपक्षे तु वयं जेष्याम इति । किं तावदत्र युक्तम् ? ज्ञानस्यायमाकार इति । कुतः ? कल्पना भवति ह्यल्पीयसीति । अर्थाकारपक्षे ह्यर्थस्य जडात्मनः प्रकाशायोगात् तस्य ग्राह्यत्वमन्यथा न स्यादिति ग्राहकान्तरपरिकल्पनावश्यम्भाविनीति कल्पनाद्वैगुण्यम् ।।
10 अथार्थ एव ग्राह्यात्मा यः स एव ग्राहक इति कथ्यते ? स तर्हि प्रकाश एवेति संज्ञायामेष विवादः स्यात् । बाह्यान्तरकृतो विशेष इति चेत्, अहो विशेषज्ञो देवानां प्रियः । ग्राहकाद् विच्छिन्नता हि ग्राह्यस्य बाह्यता । न शरीरापेक्षिणी बाह्यता भवति, यदा च ग्राह्यादर्थादव्यतिरिक्त एव ग्राहक इष्यते, तदास्य ततोऽविच्छिन्नतेत्यबाह्यत्वाज्ज्ञानमेव तदिति कथं न नाम्नि 15 विवादः ? उभयसिद्धत्वाज्ज्ञानस्य तस्यायमाकारो भवितुमर्हति, ज्ञाने हि न केचन विवदन्ते, अतस्तस्यैवायमाकार इति युक्तम्, अनेककल्पनातो ह्येकार्थकल्पना ज्यायसीति । अतश्च ज्ञानस्यायमाकारः ।
ज्ञानं हि प्रकाशकमप्रकाशस्यार्थस्य भवद्भिरभ्युपगम्यते, ततश्चात् प्रथमतरस्य ग्रहणेन भवितव्यम्, अगृहीतस्य दीपादेः प्रकाशस्य प्रकाशकत्वा- 20 दर्शनात् । उत्पन्नेष्वपि च घटादिष्वर्थेषु प्रकाशवैकल्याद् वा प्रतिबन्धवैधुर्याद् वा भवत्यग्रहणं ज्ञानस्य, उत्पन्नस्य सतो न कश्चिद् ग्रहणे प्रतिबन्धकः, न च प्रकाशान्तरापेक्षणं स्वत एव दीपवत् प्रकाशस्वभावात् । अतो यदैव तस्योत्पादस्तदैव ग्रहणमवश्यं भवेत्, न चेत्, कालान्तरेऽपि न स्यात् । किं हि तस्य कालान्तरे भविष्यति, किं वा तदा नाभूद् येन तत् कालान्तरे ग्रहीष्यते तदा 25 च न गृह्यत इति । ज्ञानान्तरेण कालान्तरे तद् ग्रहीष्यत इति चेत्, तदपि केन ग्रहीष्यते ? अन्येनेति चेत्, तदप्यन्येनेति कोऽवधिः ? श्रम इति चेत्, कामं