________________
न्यायमञ्जऱ्यां
[ नवमम् संसारिणामन्येषामानन्त्यदर्शनात् । अहम्प्रत्ययस्य प्रत्यगात्मवृत्तेः परत्रासम्भवात् । जगद्वैचित्र्यस्य च पुरुषभेदनियतधर्माधर्मनिबन्धनस्यान्यथानुपपत्तेः । आत्मभेदस्य विस्पष्टसिद्धत्वात् । तप्तलोहस्फुलिङ्गक-घटाकाश-पादवेदनादि
दृष्टान्तकदम्बस्य च निषेधः कृत एवेति एकात्मवादोऽपि न युक्तिमान् 5 इत्यलं विस्तरेण ।
शब्दस्यायं विवर्तः कथमखिलमिति प्रस्फुरत्तद्विविक्तस्वाकारोऽर्थप्रपञ्चः कथमिव विकृतिब्रह्मणो वेदृशी स्यात् । तस्मान्नानात्मतत्त्वे परिचितसदसत्कर्मपाकानुसारप्रादुर्भूतेश्वरेच्छावशविचलदणुप्रोद्भवो
छावशावचलदणुप्रोद्भवो भूतसर्गः ॥ 10 विज्ञानाद्वैतवादः
एवं स्थितेषु सर्वेषु तूष्णीमद्वैतवादिषु । _ विज्ञानाद्वैतवादी तु पुनः प्रत्यवतिष्ठते ॥ सत्यमनुपजनमनपायमेकमपरिमितमद्वयं ब्रह्म न युक्तिमदिति युक्त एव तदनभ्युपगमः, विज्ञानमेव तु क्षणिकमुपजनापायधर्मकमनादिसन्तानप्रबन्ध15 प्रवृत्तमिदं तथा तथावभातीति न ततोऽद्वितीयमर्थरूपं नाम किञ्चिदस्तीति पश्यामः ।
ननु प्रत्यक्षादिना प्रमाणेन परस्परविसदृशपदार्थरूपसंवेदनस्य दर्शितत्वात् कथं विज्ञानस्यायमवभासः, अर्थाभावे तत्स्वरूपानुपपत्तेः, ग्राह्यग्रहणं हि विज्ञानं नाम भवति नाग्रहणमिति ।
प्रत्यगात्मवृत्तेरिति प्रतिशरीरम् अञ्चतीति प्रत्यङ् नियतशरीरवर्ती य आत्मा तद्वत्तेः ।
परिस्फुरदित्यादि प्रस्फुरन् शब्दविविक्तः स्वाकारो यस्य ।
कथमेवमिव विकृतिब्रह्मणो वेदृशो स्याद् अविशुद्धा विशुद्धस्य । विकारा हि दध्यादयो न सर्वात्मना प्रकृतिधर्मविसदृशा दृश्यन्ते। अमी तु जीवादयो विकारा नित्य25 प्रबुद्धशुद्धस्वभावस्य तदोयधर्माननुवर्तनात् कथं विकाराः ।
पुनः प्रत्यवतिष्ठते । स्वमते विशेषं पश्यन् । न ग्रहणग्रहणम् । स्वरूपग्रहणमित्यर्थः ।