________________
आह्निकम् ]
प्रमेयप्रकरणम् चेतनत्वमपि शब्दब्रह्मणो वर्ण्यते, तीश्वरस्यैव शब्दब्रह्मेति नाम कृतं स्यात् । यदरप्युच्यते,
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ इति । तदपि ब्रह्मसुभिक्षमत्यन्तमलौकिकमेकतरस्य ब्रह्मणः काल्पनिकत्वात् । 5 अकाल्पनिकत्वे वा कथमद्वैतवादः ? तस्मात् कृतमनेन शब्दब्रह्मणा, स्वस्ति परस्मै ब्रह्मणे भूयात्, अविद्यामायाविनिर्मितविविधप्रथनकल्पश्च सत्ताद्वैतदूषणावसर एव निवारित इति शब्दाद्वैतमपि तद्वदसमञ्जसमसिद्धम् ।
एतेन परमात्मोपादानत्वमपि प्रत्युक्तम्, परमात्मनो निसर्गनिर्मलस्य एवम्प्रायकलुषविकारकारणत्वानुपपत्तेः । असत्यमेव विकारजातमविद्यातः 10 परमात्मनि विभातीत्येतदपि दूषितम् । अतः सर्वथा नाद्वैतपक्षः कश्चिदनवद्यः ।
अथ सर्वप्राणिनामेक एवात्मा नाना नात्मान इतीदृशमद्वैतमुच्यते, तदप्यप्रमाणकम्, एकस्मिन् सुखिते न सर्वे सुखिनः, एकस्मिन् दुःखिते वा न सर्वे दुःखिता इति व्यवस्थादर्शनात् । आत्मपरव्यवहारस्य च सर्वजनप्रतीतिसिद्धस्य दुरपह्नवत्वात् । अन्यदृष्टे च सुखसाधने वस्तुनि स्मरणानुसन्धानपूर्वकेच्छाद्वेषादि- 15 कार्यजातस्यान्यत्रानुपलम्भात् । एकस्मिश्च वीतरागे मोक्षमासादितवति
. द्वे ब्रह्मणी वेदितव्ये इति । वैखर्याद्यवस्थात्रयेण विवृतं शब्दब्रह्म, परन्तु अविवृतावस्थं सकलपरिकल्पनातीतम् ।
अविद्यामायाविनिमितेति । अविद्यैव मायेन्द्रजालप्रख्या ।
एतेन परमात्मोपादानत्वमपीति पूर्वं त्वभेदादर्शनमविद्येत्युक्तम्, अधुना तु 20 भेदानां परमात्मैवोपादानकारणमित्यभिधीयते । मा भूभेदप्रपञ्चस्य मायाप्रदर्शितत्वमसत एव । तस्मात् परमात्मैव तथाविधस्य भेदप्रपञ्चस्योपादानमिति । पूर्वत्र केवलाविद्यावशादभेदाग्रह इह तु परिणत्या अविद्यया चेति । सर्वत्र चैतन्याभिव्यक्तेरचेतनाच्चैतन्योत्पत्तेरयोगाद् व्यापकत्वात् तस्यैव कारणत्वं युक्तम् । प्रकाशात्मिकयैव शक्त्या पदार्थानामचेतनानां सत्त्वव्यवस्थापनात् तच्छक्त्या अविनिर्भाग इति ।
25