________________
5
न्यायमञ्ज
[ नवमम् अथ सर्वगतत्वेन शब्दानामर्थदेशे प्राप्तिरभिधीयते, तर्हि सकलशब्दसार्थसाधारण्यादत्यन्तमध्याससाङ्कर्यमनवधार्यमाणविशेषनियमकारणमापद्यत इत्यलमतिप्रसङ्गेन । सर्वथा न सम्बद्धः शब्दाध्यासवादः । न च शब्दविवर्त्तः
विवर्तवादोऽपि न समञ्जसः । तथा हि विवर्ते क्षीरमिव दधिरूपेण परिणामित्वेन विकारितया वा क्षीरादेरिवानित्यत्वप्रसङ्गात् । तथाभावेऽपि च नाद्वैतसिद्धिः, दध्न इव क्षीरविकारस्य शब्दविकारस्यार्थस्य ततोऽन्यत्वात्; अन्यत्वाच्च बाधकारणकालुष्याद्युपप्लवविरहितकिसलयप्रतीतिसमर्पितभेद
त्वात् । अथार्थप्रतिभासमसत्यमपीन्द्रजालवदुपदर्शयति शब्द इत्ययं विवर्तार्थः, 10 सोऽपि न युक्तः, बाह्यस्य वस्तुनः पदाभिधेयस्य जातिव्यक्त्यादेः,
वाक्यवाच्यस्यापि भावनादेः पूर्वप्रसाधितत्वात् । अवयव्यादेश्चादूर एवाने समर्थितत्वात् । न चेन्द्रजालमायादिवदयथार्थतायामिह किमपि कारणमुत्पश्यामः ।
अथार्थरूपेण शब्दः शुक्तिरिव रजताकारतयावभासत इतीयं विवर्तवाचो15 युक्तिः, इयमपि न साधीयसी। शुक्तिका हि रजतवत् प्रकाशत इति शक्यं
वक्तुं शुक्तेराकारसारूप्येण तथावभाससम्भवात् । इह तु शब्दार्थयोरत्यन्तविसदृशवपुषोराकारसमारोपकारणानवधारणात् कथमितररूपणेतरस्यावभासः । शक्तिकारजतादिप्रतीतिषु च बाधकवशात् तथात्वमवगतम्, इह तु धर्ममजहत्
सत्यामसत्यां वा अर्थबुद्धिमादधाति शब्द इत्ययं विवर्तार्थः । एषोऽपि 20 सम्प्रत्येव प्रतिक्षिप्तः, शब्दानुवेधविरहिणीनां प्राचुर्येण प्रतिपत्तीनां प्रदर्शित
त्वात् । न चान्यः कश्चिद् विपश्चिच्चेतसि विपरिवर्तते विवर्तप्रकार इत्यवाचकमुच्यते 'विवर्ततेऽर्थभावेन' इति ।
अथ शब्दब्रह्मैव सृजति जगन्तीत्ययं विवर्तप्रकार उच्यते, सोऽपि न सम्यक्, अचेतनत्वेन शब्दस्य ईश्वरस्येव स्रष्टत्वानुपपत्तेः । न च परमाणुवदस्य 25 कारणत्वम्, अवयवसमवायित्वेन पृथिव्यादेः कार्यस्य ग्रहणात् ।
अथ 'विज्ञानमानन्दं ब्रह्म' इत्यागमवचनमनुसरता विभुत्वमिव