________________
आह्निकम् ]
प्रमेयप्रकरणम् वृक्षपक्षशब्दयोश्च घटपटशब्दयोरिव स्वरूपभेदाविशेषादानपेक्षित्वाच्च विशेषणविशेष्यभावसामानाधिकरण्ये शब्दाध्यासवादिनो न भवेताम् । न ह्य कत्र वस्तुनि वाच्ये क्वचिदनयोः शब्दयोवृत्तिः ।
एतेन नीलोत्पलमपि प्रत्याख्यातम् । तत्रैतत्स्यात्, न नीलगुणविशेषितमुत्पलं नाम किञ्चिदस्ति विशेष्यम्, अपि तु तन्निरस्तावयवार्थम् अश्वकर्णादि- 5 वदर्थान्तरमेवेदम्, व्युत्पत्तिप्रकारमात्रन्तु विशेषणविशेष्यभाववर्णनमिति । तदेतदसमीचीनम्, अनुभूयमानावयवार्थप्रतीतिनिह्नवनिमित्तानुपलम्भात् । अश्वकर्णादौ हि युक्तमर्थान्तरत्वम्, तत्र हि नाश्वार्थो न कर्णार्थः । निरवयववाक्यार्थवादश्च प्रागेव विस्तरेण निरस्त इत्यलं पुनरुक्तालापेन ।
अथ शब्दाद्वयाभ्यासनिबन्धनमेव सामानाधिकरण्यं वृक्षो वृक्ष इत्युच्यते, 10 तदपि न चारु, वृक्षस्तरुरिति पर्याययोरपि तत्सम्भवे सति सामानाधिकरण्यप्रसङ्गात् ।
अपि च, पर्यायेषु 'हस्तः करः पाणिः' इत्यादिषु शब्दरूपभेदाध्यासपक्षे अर्थबुद्धिभेदः प्राप्नोति, न चासावस्तीति नाध्यासः ।।
किञ्च सम्बन्धग्रहणनिरपेक्षोऽपि शब्दः स्वसामर्थ्यमनुरुध्यमानः 15 स्वाध्यासेन बुद्धि विदध्यात्, तदपेक्षायां कस्य केन सम्बन्ध इति न बुध्यामहे, शब्दादर्थस्य पृथग्व्यवस्थितात्मनस्तन्मते दुर्लभत्वात् । शब्दव्यतिरिक्तार्थोपगमे वा किमनेन शब्दाध्याससमर्थनाडम्बरेण ? विरम्यतामतो मृगतृष्णानुसरणरणरणकात् ।
अपि चाध्यासः क्वचित् सादृश्याद् भवति शुक्ताविव रजतस्य, क्वचिदनु- 20 रागाद् भवति लाक्षया इव स्फटिके । शब्दार्थयोर्मूर्तामूर्त्ततयातिदूरभिन्नस्वरूपयोः सादृश्यं तावदनुपपन्नम्, अनुरागोऽपि तत एव दुर्घटः पृथग्देशत्वाद् भिन्नेन्द्रियग्राह्यत्वाच्च।
प्रतिबिम्बवर्णनमपि न सुन्दरम् । दूरदेशत्वेन शब्दार्थयोः प्राप्तेरभावात्, अप्राप्तयोश्च प्रतिबिम्बोदये द्वारकोद्याननिवासिवासुदेवसुन्दरीवदनतामरसानि 25 सागरतरङ्गपवनपरिचयचलदलकलतिकालाञ्छितानि स्वच्छेषु ज्योत्स्नावदातद्युतिषु तुषारगिरिगह्वरगततुहिनशिलाकर्पूरदर्पणेषु प्रतिबिम्बितानि दृश्येरन् ।
न्या० म०६