________________
न्यायमञ्ज
[ नवमम् . न ा पायादभिन्नत्वं तदुपेयस्य युज्यते ।
___ रूपस्य न ह्यभिन्नत्वं दीपाद् वा चक्षुषोऽपि वा ॥
अपि च, यदि शब्दादभिन्नोऽर्थः प्रतिभात्येव कोऽध्यासार्थः अध्यासभ्रमस्तु वैयाकरणानामेकाकारनिर्देशदोषनिर्मितः, यथा गौरित्येष हि निर्देशो वाच्यतबुद्धिवाचिनाम् । कस्त्वया दृष्टोऽर्थ इति पृष्टो गौरिति, कीदृशं ते ज्ञानमुत्पन्न गौरिति, कीदृशं शब्दं प्रयुक्तवानसि गौरिति, तत एषा भ्रान्तिः । वस्तुतस्तु विविक्ता एवैते शब्दज्ञानार्थाः । तदुक्तम्,
गवि . सास्नादिमद्रूपा गादिरूपाभिधायके।
निराकारोभयज्ञाने संवित्तिः परमार्थतः ।। इति । 10 एवमिन्द्रियजेष्विव शाब्देष्विपि प्रत्ययेषु न शब्दः स्वरूपमध्यस्यतीति
युक्तम्, यदि च शब्द: स्वरूपेणार्थं प्रतिपादयति तदा अक्षशब्दस्यैक्याद् देवनविभीतकरथाक्षेषु तुल्या प्रतीतिः स्यात्, न चाक्षशब्दा भिन्ना इति वक्तव्यं रूपप्रत्यभिज्ञानपायात्, तदुच्चारणे चार्थत्रय्यां संशयदर्शनात्, ‘भवति'शब्दयोश्च
सुप्तिङन्तयोस्तुल्यरूपत्वादध्यासपक्षे तुल्यार्थप्रतीतिहेतुत्वं प्राप्नोति, तथा च 15 सिद्धसाध्यबुद्धिः संवेद्यमानापि निह्नयेत । एवम् अगादिति, अश्व इति, अजापय इत्यादावपि द्रष्टव्यम् ।
शब्दस्य सिद्धरूपत्वात् तदध्यासेनार्थबुद्धाविष्यमणायां 'यजेत दद्याज्जुहुयाद्'इत्यादौ न क्वचित् सा बुद्धिर्भवेत्, सिद्धाध्यासेन साध्यबुद्धेरननुरूपत्वात् । जातिगुणक्रियाशब्दाश्च ‘गौः शुक्लो गच्छति' इत्यादयः केन कारणेन नियतमध्यासमनुरुन्धत इति नावगच्छामः, शब्दस्यार्थानपेक्षनिसर्गसिद्धवैश्वरूप्यकल्पनाबीजाभावात् । प्रतिनियतशब्दवृत्तेश्च कस्यचिल्लक्षणोऽनुपलक्षणात् ।
वाच्यतबुद्धिवाचिनामिति वाच्यं च तद्बुद्धिश्च वाची चेति वाच्यतबुद्धिवाचिनः । अस्य पूर्वमर्धम्,
शब्देनैव हि निर्देशो गृहीतेऽर्थेऽवकल्पते ।।
गवि सास्नादिमद्रूपेति । सास्नादिमदाकारा । अर्थेन स्वप्रकटनायै गृहोतत्वाद् बुद्धेस्तदाकारत्वमुच्यते, न पुनर्वस्तुतः, निराकारज्ञानवादित्वाद् मीमांसकस्य ।
25