________________
३९
आह्निकम् ]
प्रमेयप्रकरणम् तत्राभिधीयते, न खलु प्रकारत्रयमपीदमुपपद्यते । पदपदार्थसम्बन्धव्युत्पत्तिविरहिणामनवाप्तशब्दयोजनाबरूप्यसारूप्यमात्रप्रतिशुद्धवस्तुग्रहणप्रवणेन्द्रियज - प्रत्ययदर्शनात्, वृद्धव्यवहारपरिचयाधिगतशब्दार्थसम्बन्धसंस्थाधियामपि शब्दस्मरणसंस्कारप्रबोधहेतुभूतप्रथमोद्भूतविशुद्धवस्त्ववभासस्यापरिहार्यत्वात्। यत्र हि वस्तुनि निविशमानः शब्दः शब्दविद्व्यवहारेषु योऽवधृतस्तद्दर्शने 5 तत् संस्कारप्रबोधात् स्मृतिपथमेति नान्यथेति, सामान्यशब्देष्वपि यत्, तत्, सत्, किमित्यादिषु विशेषशब्देष्विव सैव वार्ता तेषामपि व्युत्पत्त्युपयोगविरहे विविधवनविहारिविहङ्गकूजितादिव अर्थप्रतीतिहेतुत्वानुपपपत्तेः । सविकल्पकदशायामपि न वाचकविशिष्टं वाच्यं मेचकगुणखचितमिव कुवलयमवलोकयतीति विस्तरतः प्रत्यक्षलक्षणे परीक्षितमेतत् । आह च,
10 न शब्दाभेदरूपेण बुद्धिरर्थेषु जायते ।
प्राक् शब्दाद् यादृशी बुद्धिः शब्दादपि हि तादृशी ॥ इति । संज्ञित्वमात्रमधिकमधुना ध्वनिसन्निधाने बुद्धिमधिरोहति, न तद्विशिष्टोऽर्थः, तस्य हि श्रोत्रेण नेत्रेणोभाभ्यां न, केवलेन मनसा वा ग्रहणमुपपद्यते, अतिप्रसङ्गात् ।'
15
नापि शब्दाध्यासवादः
शब्दो ह्यनेकधर्मके धर्मिण्येकतरधर्मावधारणाभ्युपायो भवति, न तत्रात्मानमारोपयति । न हि दीपेन्द्रियप्रभृतयः प्रतीत्युपायास्तदुपेये रूपादावात्मानमारोपयन्ति, अत एव तदुपायत्वभ्रमकृतस्तदभेदवादोऽपि न युक्तः ।
तस्मादाकृतिगोत्रस्थाद् व्यक्तिग्रामा विकारिणः । मारुतादिव जायन्ते वृष्टिमन्तो बलाहकाः ।। ६ । यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिश्चित्राभिः प्रतिपद्यते ॥ ७ । तथेदममलं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रतीयते ।। ८ । इत्यादि ।