________________
न्यायमञ्ज
[ नवमम वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमशिनी ।। इति । अतः क्रमेण तावदेवं बोध्यसे शब्दाख्यविशेषणानुवेधविशेषाननुभवात् सर्वं निर्विकल्पकमिन्द्रियजमविकल्पकं वा ज्ञानं शब्दविशिष्टमर्थमवद्योतयति । गौः 5 शुक्लो गच्छतीति जातिगुणक्रियावच्छिन्नविषयावभासिनि प्रत्यये शब्दविशिष्ट
एवार्थः प्रस्फुरतीति बुद्धयस्व, एवं चेद् बोद्धमवतीर्णोऽसि शब्दाख्यविशेषणानुरक्तस्य तस्य विशेष्यस्य स्वरूपं पृष्टः शब्देनैव दर्शयसि शब्दापरित्यागलब्धप्रकाशस्वरूपयैव वा अनुभूत्यानुभवसीति सोऽपि विशेष्यः शब्दरूप एवेति
जानीहि । तदेवं शब्द एवार्थोपारूढः प्रतिभातीति व्यवतिष्ठते । इत्थमियन्त10 मध्वानं चेत् प्राप्तोऽसि तदधुना यदुपारूढः शब्दः प्रकाशते तस्य पृथक् प्रदर्श
यितुमनुभवितुञ्चाशक्यत्वाच्छब्द एव तथा प्रतिभातीति शब्दविवर्त एवायमर्थो नान्यः कश्चिदिति प्रतिपत्तुमर्हसि । यथा चायमिन्द्रियजेषु प्रतिभासेषु प्रक्रमस्तथा शाब्देष्वपि प्रत्ययेषु शब्दविशिष्टो वार्थः प्रतिभाति शब्दो वार्थारूढः ।
शब्द एवार्थरूपेण विवर्तत इति गृह्यताम्। अतश्च शब्दब्रह्मेदमेकमविद्योपाधि15 दर्शितविचित्रभेदमविद्योपरमे यथावस्थितरूपं प्रकाशत इति युक्तम् ।
अविद्योपाधिदर्शितविचित्रभेदमिति । तदाह, यः सर्वपरिकल्पानामभावेऽप्यनवस्थितः । तांगमानुमानेन बहुधा परिकल्पितः ॥ १। व्यतोतो भेदसंस! भावाभावौ क्रमाक्रमौ । सत्यान्ते च विश्वात्मा प्रविवेकात् प्रकाशते ॥२। अन्तर्यामी स भूतानामाराद् दूरे च दृश्यते । सोऽत्यन्तमुक्तो मोक्षाय मुमुक्षुभिरुपास्यते ॥ ३ । प्रकृततित्वमपि प्राप्तान् विकारानाकरोति यः । वसुधामेव धर्मान्ते महतो मेघसम्प्लवात् ॥ ४ । तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते । अङ्गाराङ्कितमुत्पाते वारिराशेरिवोदकम् ॥ ५ ।
25