________________
आह्निकम् ] प्रमेयप्रकरणम्
३७ उच्यते, तत्रानादिनिधनपदनिवेदिता पूर्वापरान्तरहिता वस्तुसत्ता नित्यत्वम् ब्रह्मपदप्रतिपादितञ्च व्यापित्वमित्युभयमपि शब्दस्य प्रागेव निरस्तम् । निरवयवश्च स्फोटात्मा शब्दः प्रतिक्षिप्त एव । यत्तु नित्यं वा किञ्चिदुच्यते तच्छब्दतत्त्वमित्यत्र का युक्तिः ? आह, शब्दोपग्राह्यतया च शब्दतत्त्वम्, तथा हि सर्वः प्रत्यय उपजायमानो नानुल्लिखितशब्दक उपजायते 5 तदुल्लेखविरहिणोऽनासादितप्रकाशस्वभावस्य प्रत्ययस्यानुत्पन्ननिविशेषत्वात् । इदमीदृशमित्यादिपरामर्शमुषितवपुषि वेदने वेदनात्मकतैव न भवेत् । येऽपि वृद्धव्यवहारोपयोगिवैधुर्यानवाप्तशब्दार्थसम्बन्धविशेषव्युत्पत्तयो बालदारक- . . प्रायाः प्रमातारस्तेऽपि नूनं यत्, तत्, सत्, किमित्यादि शब्दजातमनुल्लिखन्तो न प्रतियन्ति किमपि प्रमेयम्, अतः शब्दोन्मेषप्रभावप्राप्तप्रकाशस्वभावत्वात् 10 सर्वप्रत्ययानाम् ।
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ॥ इति । एवमनभ्युपगमे तु संविदः प्रकाशशून्यतया अनधिगतविषयः सर्व एवान्धमूकप्रायो लोकः स्यात् । आह च,
15 हरिः, “एकस्य तत्त्वादप्रच्युतस्य भेदानुकारेणासत्यविभक्तान्यरूपोपग्राहिता विवर्तः, स्वप्नविषयप्रतिभासवत्" इति एकस्यान्यरूपस्वीकारं स्वरूपविनाशेन प्रतिपद्यते प्रतीत्यसमुत्पादवादिन इति तद्व्यवच्छेदार्थं तत्त्वादप्रच्युतस्येति विशेषणम् । एवमपि कारणस्य स्वात्मसमवायि यत् कायं तस्यापि परिग्रहः स्यादिति विभक्तग्रहणम् । विभक्तस्य नानाभूतस्येत्यर्थः । तथापि तत्त्वादप्रच्युतस्य धर्मान्तरतिरोधानाविर्भावाभ्यां विभक्तान्य- 20 रूपो यः परिणामस्तस्यापि प्रसङ्ग इत्यस्य इत्यसत्यग्रहणम् । एवमपि तत्त्वतस्तत्त्वमधि. जहतोऽन्यरूपेण वितथत्वात् समारोपवशेन पररूपावेशाद् गोत्वस्येव बाहोकार्थोपग्राह इति तद्व्यवच्छेदार्थमाह भेदानुकारेणेति ।।
शब्दोपग्राह्यतयेति । शब्द उपग्राह्यः स्वीकर्तव्योऽस्य तदाकारस्यात्मनि व्यवहारावस्थायाः प्रकाशनात् । शब्दे तदुपग्राह्यत्वेन विवृतस्य तेन प्रतिपाद्यतयाऽलम्बनात् 25 शब्दोपग्राहितया चेति शब्दमुपगृह्णाति तदाकारमात्मनि स्वीकरोति । शब्दः उपग्राही वाचकत्वेन वास्येति ।