________________
5
न्यायमञ्जर्यां
अवच्छेदकस्य पादादेस्तत्र तात्त्विकत्वात् इह तु भेदकल्पनाबीजमद्वैतवादिनो दुर्घटमिति बहुशः प्रदर्शितम् ।
तदेवमत्र वस्तुसंक्षेपः, अविद्यायामसत्यां सर्व एवायं यथोदाहृतो व्यवहारप्रकारस्तत्कृत इति नावतिष्ठते, सत्यान्तु तस्यां नाद्वैतमिति । अत एवाह सूत्रकारः ‘संख्यैकान्तासिद्धिः प्रमाणोपपत्त्यनुपपत्तिभ्याम्' इति, यदि तावद - द्वैतसिद्धौ प्रमाणमस्ति तर्हि तदेव द्वितीयमिति नाद्वैतम् । अथ नास्ति प्रमाणं तथापि नतरामद्वैतम् अप्रामाणिकायाः सिद्धेरभावादिति ।
20
३६
10 शब्दाद्वैतवादखण्डनम्
25
मन्त्रार्थवादोत्थविकल्पमूलमद्वैतवादं परिहृत्य तस्मात् । उपेयतामेष पदार्थभेदः प्रत्यक्षलिङ्गागमगम्यमानः ॥
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति ।
सङ्ख्यैकान्तासिद्धिरिति । अथेमे सङ्ख्यैकान्ताः सर्वमेकं सदविशेषात् सर्वं द्वैतं
नित्यानित्यभेदात् सर्वं त्रिधा ज्ञाता ज्ञेयं ज्ञानमिति, सर्वं चतुर्धा प्रमाणं प्रमाता प्रमेयं 15 प्रमितिरिति । एवं यथासम्भवमन्येऽपि । तामननेन सूत्रेण निराकरोति ।
[ नवमम्
अनादिनिधनमिति यद् ब्रह्मैवंरूपं तस्य प्राप्त्युपायोऽनुकारश्च वेद इति सम्बन्धः । तथा चैतच्छ्लोकपाठोत्तरकालं कतिपयश्लोकव्यवधानेन --
प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः ।
एकोऽप्यनेकधर्मेव समाम्नातः पृथक् पृथक् ॥
इति पठितम् । तत्रानादिनिधनं ब्रह्मेति स्वयं व्याख्यातम् । प्रत्यक्चैतन्यात्मना विवृतस्याकार ेतुत्वादक्षरमित्युक्तम् । तच्च तस्यापारमार्थिकं रूपमद्वैतावस्थायामभावात् । एवमर्थाकारोऽपि तस्यामवस्थायां नास्ति । तदेवाह, विवर्ततेऽर्थ भावनेति । ननु यथा प्रधानं साङ्ख्यदृष्ट्या तत्तदाकारपरिग्रहाद् विपरिणामि तथा ततोऽर्थोत्पत्तेर्विपरिणामित्वं प्राप्तमित्याह, प्रक्रिया जगतो यत इति । उत्पत्तेरवास्तवत्वात् प्रक्रियामात्रं संव्यवहारमात्रमेव ततो जगतो न पुनः परमार्थतः किंचिदुत्पद्यते । माययैव व्यवहारपदवीमवतरन्तोऽमी जगदाख्या विकाराः, न तु ब्रह्मणा जन्यन्ते, विशुद्धादविशुद्धोत्त्पत्ययोगात् । विवर्तलक्षणं चाह