________________
आह्निकम् ]
प्रमेयप्रकरणम् स्यात्, अनादिप्रबन्धप्रवृत्तत्वे चास्याः प्रतिकूलहेत्वन्तरोपनिपातकृतमपाकरणमुचितम्, एकात्मवादिनान्तु तदतिदुर्घटमित्यनिर्मोक्ष एव स्यात् । यथाह भट्टः,
स्वाभाविकीमविद्याञ्च नोच्छेत्तं कश्चिदर्हति । विलक्षणोपपाते हि नश्येत् स्वाभाविकं क्वचित् ।।
न त्वेकात्माभ्युपाधीनां हेतुरस्ति विलक्षणः ॥ इति । 5 यत्पुनरविद्यैव विद्योपाय इत्यत्र दृष्टान्तपरम्परोद्घाटनं कृतम्, तदपि क्लेशाय, नार्थसिद्धये, सर्वत्रोपायस्य स्वरूपेण सत्त्वादसतः खपुष्पादेरुपायत्वाभावात्, रेखागकारादीनान्तु वर्णरूपतया सत्त्वं यद्यपि नास्ति तथापि स्वरूपतो विद्यत एव ।
ननु गकारोऽयमिति गृह्यमाणः स रेखासन्निवेशोऽर्थप्रत्यायको भवति 10 न चासौ तेन रूपेणास्ति । ___मैवम्, स्वरूपेणासतोऽर्थस्य रूपान्तरेणापि गृह्यमाणस्य कूटकार्षापणादेरिव व्यवहारहेतुता दृश्यते च युक्ता च । वस्तु स्वरूपत एव नास्ति तस्य स्वात्मना परात्मना वा व्यवहाराङ्गता समस्ति, रेखासन्निवेशश्च स्वरूपेण सन्निति वर्णात्मत्वेनासन्नपि तत्कार्याय पर्याप्नुयान्न त्वयमविद्यायां न्यायः 15 स्वरूपासत्त्वात् तस्याः । सर्पादौ तु सर्पादिस्वरूपवत् तज्ज्ञानस्यापि तत्कार्यत्वमवगतमत एव शङ्काविषस्यापि स्वशास्त्रेषु चिकित्सामुपदिशन्ति । एवं नवगुहाकुहरादेष निःसृतः केसरी सरोषमित एवाभिवर्तत इत्यसत्येऽप्युक्ते यद् भीरूणां भयपलायनादि शूराणाञ्च सोत्साहमायुधोद्यमनादि सत्यं कार्यमुपलभ्यते तत्र सिंहज्ञानस्य तत्कार्यत्वात् तस्य च स्वरूपसत्त्वान्नासत एवोपाय- 20 त्वम् । एतेन प्रतिबिम्बदृष्टान्तोऽपि प्रत्याख्यातः, खड्गादेर्मुखादिकालुष्यकल्पनाकारणस्य तत्र सद्भावादिह तदसद्भावादिति ।
यद्यपि बद्धमुक्तव्यवस्थासिद्धये पादवेदनाद्युदाहृतम्, तदप्येवमपाकृतम्,
विलक्षणोपपाते होति । यथा अग्निसंयोगोपपाते परमाणुगतायाः श्यामतायाः निवृत्तिः । एकात्मविषयोऽभ्युपायोऽभ्युपगमो येषां तेषां मते न विलक्षणो द्वितीयो हेतुरस्ति 25 आत्मैवाभ्युपायः । अविद्यानिवृत्तौ विद्या हि तदभ्युपायः, सा चात्मनो न भिन्नेति ।