________________
न्यायमञ्जयां
[ नवमम् यत्पुनरविद्यादिभेदचोद्यमाशङ्कय परिहृतं तत्राशङ्का साधीयसी समाधानं तु न पेशलम् । तत्त्वान्यत्वाभ्यामनिर्वचनीयेयमविद्येति कोऽर्थः ?
अनादिना प्रबन्धेन प्रवृत्तावरणक्षमा ।
यत्रोच्छेद्याप्यविद्येयमसती कथ्यते कथम् ॥ 5 अस्तित्वे क एनामुच्छिन्द्यादिति चेत्, कातरसन्त्रासोऽयम् । सतामेव हि
वृक्षादीनामुच्छेदो दृश्यते नासतां शशविषाणादीनाम्, तदियमुच्छेद्यत्वादविद्या नित्या मा भूत् सती तु भवत्येव ।
नित्यं न शक्यमुच्छेत्तुं सदनित्यन्तु शक्यते ।
असत्त्वमन्यदन्या च पदार्थानामनित्यता ॥ 10 न च तत्त्वाग्रहणमात्रमविद्या संशयविपर्ययावप्यविद्यैव, तौ च भाव
स्वभावत्वात् कथमसन्तौ भवेताम् ? ग्रहणप्रागभावोऽपि नासन्निति शक्यते वक्तुमभावस्याप्यस्तित्वसमर्थनादिति सर्वथा नासत्यविद्या । ___असत्त्वे च निषिद्धेऽस्याः सत्त्वमेव बलाद् भवेत् ।
सदसद्वयतिरिक्तो हि राशिरत्यन्तदुर्लभः ।। 15 सत्त्वे च द्वितीयाया अविद्याया भावान्नाद्वैतम् ।।
यत्तु, ब्रह्मणः सततप्रबुद्धत्वादविद्याक्षेत्रता नेति जीवानामविद्यास्पदत्वमभिहितम्, अविद्योपरमे ब्रह्मणि परमे त एव घटाकाशवल्लीयन्त इति ।
तदपि न चतुरस्रम्, आकाशावच्छेदहेतोर्घटमानत्वात्, अविद्यायास्त्वसत्त्वात् तत्कृतः परमात्मनोऽवच्छेद इतिविषमोदृष्टान्तः । अवच्छेदकत्वाभावाच्च जीवविभागकल्पनापि निरवकाशैव । यच्चेतरेतराश्रयत्वं परिहर्तुमनादित्वमावेदितमविद्यायास्तत्र बीजाङकुरवद् वेद्यान्तरोपगतसंसारवच्च तस्याः सत्यत्वमेव
ग्रहणप्रागभावोऽपोति । अभेदग्रहणस्यानुत्पत्तिर्भेदग्रहणं चेति द्विविधा अविद्या तैरुक्ता।
तत्कृतः परमात्मनोऽवच्छेद इति । अभिन्नस्य भेदेन प्रतिभासनम् । वाद्यन्तरोप25 गतसंसारवच्चेति । नैयायिकोक्तः संसारो यथाऽनादित्वात् तात्त्विकः तथेयं स्यादिति ।