________________
आह्निकम् ]
प्रमेयप्रकरणम् यदप्युक्तम्, 'आहुविधातृप्रत्यक्षम्'इति, तदप्यसाधु, विधातृ इति कोऽर्थः, इदमपि वस्तुस्वरूपं गृह्णाति नान्यरूपं निषेधति प्रत्यक्षमिति चेन्मैवम्, अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तेः । पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति नेतरथा। तथा चाह 'तत् परिच्छिन्नं त्वन्यद् व्यवच्छिनत्ति'इति, भाववदभावमपि ग्रहीतुं प्रभवति प्रत्यक्षमिति च 5 साधितमस्माभिरेवैतत् । तस्मादितरेतरविविक्तपदार्थस्वरूपग्राहित्वान्नाभेदविषयं प्रत्यक्षम् । शब्दानुमानयोस्तु सम्बन्धग्रहणाधीनस्वविषयव्यापारयोर्भेदमन्तरेण स्वरूपमेव नावकल्पत इति तावुभावपि भेदविषयावेव । विशेषविषयत्वामावेऽपि लिङ्गसामान्यस्य तदितरविलक्षणस्य परिच्छेदात् । वापस्य तु परस्परोपरक्तपदार्थपुञ्जस्वभावः इतरपदार्थविशेषितान्यतमपदार्थरूपो वा 10 वाक्यार्थो विषय इति पूर्वमेव निरूपितम्, अतः सर्वथा न भेदस्य प्रमाणाबाधितत्वम् । नाप्यभेदग्राहि किञ्चन प्रमाणमस्ति यथोक्तेनैव न्यायेन । यस्त्वागमः पठितः 'एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन' इत्यादि, तस्यार्थवादत्वान्न यथाश्रुत एवार्थो ग्रहीतव्यः ।
ननु सिद्धेऽप्यर्थे वेदस्य प्रामाण्यमभ्युपगतमेव भवद्भिः, बाढमभ्युपगतम्, 15 किन्तु 'धूम एवाग्नेदिवा ददृशे नाचिः' इत्येवमादीनां प्रत्यक्षादिविरुद्वार्थाभिधायिनामर्थवादानां मुख्यां वृत्तिमपहाय गौण्यापि वृत्त्या व्याख्यानमाश्रितम् । एवमिदमपि वचनमितरप्रमाणाविरुद्वमर्थमभिदधदपरथा व्याख्यायते, ये तु प्रमाणान्तरविरुद्वार्थानुवादिनो न भवन्त्यर्थवादास्तेषामस्तु स्वरूपे प्रामाण्यं 'वायुर्वे क्षेपिष्ठा देवता' इत्येवमादीनाम् । तस्मात् सुखदुःखाद्यवस्थाभेदेऽपि 20 नावस्थातुरात्मनो भेदः, देहेन्द्रियादिनानात्वे वा न तस्य नानात्वमित्येवं यथाकथञ्चिदयमर्थवादो योजनीयः । अभेदोपदेशो तु तत्परः शब्दो विधिरूप इह नास्ति, एवमागमबलादपि नाद्वैतसिद्धिः ।
25
अस्यार्थवादत्वान्न यथाश्रुत एवेति । आत्ममाहात्म्यप्रतिपादनेन तदधिगमार्थे शास्त्रार्थे प्ररोचनार्थमिमे अर्थवादाः ।
तस्मात् सुखदुःखाद्यवस्थाभेदेऽपीत्यादिना सालम्बनत्वमर्थवादानाह । . . न्या० म० ५