________________
न्यायमञ्जयां
[ नवमम् बद्धे मुक्ते वा सर्वे बद्धा मुक्ता वा स्युः ? अयि कुतर्ककलुषितमते ! कथं बोध्यमानोऽपि न बुध्यसे ? घटाकाशेऽपि घटभङ्गात् परमाकाशप्रतिष्ठे जाते पटाकाशोऽपि तथा भवति । एकस्यापि जीवात्मन उपाधिभेदात् सुखदुःखानुभवभेदो दृश्यते पादे मे वेदना शिरसि मे सुखं न वेदनेति, तीव्रतरतरणितापोपनतातनक्लमस्य च यत्रैव शरीरावयवे शिशिरहरिचन्दनपङ्कस्थासकमुपरचयति परिम्लानस्तत्रैव तदुःखोपरमानुभवो नेतरत्रेत्येवमेकस्मिन्नपि परमात्मनि कल्पनामात्रप्रतिष्ठेष्वपि जीवात्मसु बद्धमुक्तव्यवस्था सिध्यतीत्येकात्मवाद एवायमागमानुगुण उपयुक्तः, नानन्त्यमात्मनाम् ।
ब्रह्मदर्शनमेवातो निःश्रेयसनिबन्धनम् । भेददर्शनमूढानां संसारविरतिः कुतः ॥ इति ।
अद्वैतवादखण्डनम्
अत्राभिधीयते, कपटनाटकरहस्यप्रक्रियापू!परचने तदनुगुणदृष्टान्तपरम्परोपपादने च किमुच्यते परं कौशलं भवताम् ! प्रमाणवृत्तनिरूपणे तु
तपस्विन एव भवन्तः । तथा हि भेदस्य प्रमाणबाधितत्वात् किम् अयमभेदाभ्युप15 गमो भवताम्, उत स्विदभेदस्यैव प्रमाणसिद्धत्वादिति? द्वयमपि नास्ति, प्रत्यक्षा
दीनि हि सर्वाण्येव भेदप्रतिष्ठानि प्रमाणानि, यत् तावद् भेदस्य परापेक्षत्वान् मृत्पिण्डात् प्रभृति घटकर्परचूर्णपर्यन्तकार्यपरम्परापरिच्छेदे तदनुगतमृद्रूपताग्रहणे च सति मृदस्तदभिन्नरूपत्वमवतार्यते नान्यथा, भिक्षवश्चाचक्षते चाक्षुषं व्यात्तवृस्वलक्षणग्राहि नाभेदविषयम् अभेदस्य परापेक्षत्वादिति । अयमस्मादन्य इतीयं परापेक्षा प्रतीतिरिति चेत्, अयमस्मिन् अनुस्यूत इतीयमपि परापेक्षैव । तदत्रभवांश्च भिक्षुश्च द्वावपि दुर्ग्रहोपहतौ । भेदाभेदग्रहणनिपुणमक्षजमिति परीक्षितमेतद्विस्तरतः सामान्यचिन्तायाम् । अङ्गुलिचतुष्टयं हि प्रतिभासमानमितरेतरविभक्तरूपमप्यनुगतरूपमपि प्रकाशते इत्युक्तम् ।
व्यावृत्तिरनुवृत्तिा परापेक्षास्तु वस्तुषु । असङ्कीर्णस्वभावा हि भावा भान्त्यक्षबुद्धिषु ॥
25