________________
आह्निकम् ]
प्रमेयप्रकरणम् त्मनामविद्येत्युच्यते, तदेतदितरेतराश्रयमापद्यते, अविद्याकल्पनायां सत्यां जीवात्मानो जीवात्मसु च सत्स्वविद्येति ? भवत्वितरेतराश्रयत्वम् अविद्याप्रपञ्च एवायमशेषः, कस्यैष दोषः, यदि चानादित्वम्, अस्य परिहारो बीजाङ्कुरवद् भविष्यति, भवद्भिरपि चायमनादिरेव संसारोऽभ्युपगतः, अविद्यैव च संसार इत्युच्यते।
नन्वनादेरविद्यायाः कथमुच्छेदः ? किमनादेरुच्छेदो न भवति भूमे रूपस्य ? भवद्भिर्वा कथमनादिस्संसार उच्छेद्यते ? ननूपाये सत्यनादिरप्युच्छेद्यते, अद्वैतवादिनान्तु कस्तदुच्छेदोपायः ? अविद्यैवेति ब्रूमः । श्रवणमननध्यानादिरप्यविद्यैव, सा त्वभ्यस्यमाना सत्यविद्यान्तरमुत्सादयति स्वयमप्युत्सीदति, यथा पयः पयो जरयति स्वयं च जीर्यति, विषं विषान्तरं शमयति 10 स्वयं च शाम्यति, यथा वा द्रव्यान्तररजः क्षिप्तं रजःकलुषितेऽन्भसि तच्चात्मानं संहत्य स्वच्छमम्बु करोति, तदेवमियमविद्यैवाविद्यान्तरमाच्छिन्दन्ती विद्योपायतां प्रतिपद्यते । ननु स्वरूपेणासत्यैवेयमविद्या कथं सत्यकार्यं कुर्यात् ? उच्यते,
असत्यादपि सत्यार्थसम्पत्तिरुपपत्स्यते ।
मायासदियो दृष्टाः सत्यप्रभयहेतवः ॥ रेखागकारादयश्चासत्याः सत्यार्थप्रतीत्युपाया दृश्यन्ते । स्वरूपेण सत्यास्ते इति चेत्, किं तेन क्रियते ? गकारादित्वेन हि ते प्रतिपादकास्तच्चैषाम- . सत्यमिति ।
ननु ब्रह्मणो नित्यशुद्धत्वाज्जीवानाञ्च ततोऽनन्यत्वात् कथं तेष्वविद्या 20 अवकाशं लभेत ? परिहृतमेतद् घटाकाशदृष्टान्तोपवर्णनेनैव । अपि च यथा विशुद्धमपि वदनबिम्बमम्बुमणिकृपाणदर्पणाद्युपाधिवशेन श्यामदीर्घस्थूलादिरूपमपारमार्थिकमेव दर्शयति तथा ब्रह्मणस्तदभावेऽपि जीवेषु तदवकाश इति । मोक्षे पुनरपि शङ्का - ननु परमात्मनो नित्यत्वाज्जीवानामप्यन्योन्यमप्यनन्यत्वमित्येकस्मिन्
___ 25