________________
10
न्यायमञ्ज
[ नवमम् केयमविद्या नाम, ब्रह्मणो व्यतिरिक्ता चेत् नाद्वैतम् । अव्यक्तिरेके तु ब्रह्मव सा, ततो नान्येत्येषेति कथमुच्छेद्यते ? मैवम्, न वस्तुनीद्वंशि तार्किकचोद्यानि क्रमन्ते । अविद्या त्वियमवस्तुरूपा माया मिथ्यावभासस्वभावा अभिधीयते । तत्त्वाग्रहणमविद्या, अग्रहणञ्च नाम कथं वस्तुधर्मे विकल्प्यते ? ___ ननु तत्त्वाग्रहणरूपापि कस्येयमविद्या ? न हि ब्रह्मणो नित्यप्रबुद्धस्वभावत्वादविद्या भवति, अन्यस्तु नास्त्येव तदाश्रयः, न च निरधिकरणमेव मिथ्याज्ञानं भवितुमर्हति ? शङ्कायाः समाधानम्
उच्यते, जीवात्मनामविद्या न ब्रह्मणः ।
ननु के ते जीवात्मानस्तेऽपि ब्रह्मणोऽन्या अनन्यतया चिन्त्या एव ? आः क्षद्रतार्किक ! सर्वत्रानभिज्ञोऽसि। ब्रह्मैव जीवात्मानः न ततोऽन्ये । न हि दहनपिण्डाद् भेदेनापि भान्तः स्फुलिङ्गा अग्निस्वरूपा न भवन्ति । तत् किं ब्रह्मण एवाविद्या ? न च ब्रह्मणोऽविद्या । यथा चैकमेव घटाद्यावरणोपहितभेदतया भिन्नमिव विभाति नभः पटाकाशं घटाकाशमिति तदावरणवशादेव च रजोधूमादिकलुषितमपि भवति, तदावरणविरतौ तु गलितकालुष्यमले तत्रैव परमे व्योम्नि लीयते, तथैव चात्मानोऽप्यविद्यापरिकल्पितभेदात् तत्कृतमनेकप्रकारकालुष्यमनुभवन्ति, तदुपरमे च परब्रह्मणि लीयन्त इति च। पुनस्तत्रैव शङ्का तत्समाधानञ्च
नन्वेवमप्यविद्यापरिकल्पित एष ब्रह्मजीवात्मविभागः, सा च जीवाततस्त्य एव चायमिति । ततस्त्योऽविद्यात आगतः । न हि दहनपिण्डादिति । तथा च श्रुतिः “तदेतत् सत्यम्, यथा प्रदीप्तात् पावकाद् विस्फुलिङ्गाः ।
सहस्रशः प्रभवन्ति सरूपाः । तथाक्षराद् विविधाः सौम्य भावाः
प्रजायन्ते तत्र चैवापयान्ति ॥"
20