________________
आह्निकम् ]
प्रमेयप्रकरणम् तत्र हि यदन्यानपेक्षतया झटिति पदार्थस्वरूपमवभासते तत् पारमार्थिकमितरत् काल्पनिकमिति गम्यते । सद्रूपमेव च तत्राभिन्नमन्यनिरपेक्षमवभाति, भेदस्त्वन्यापेक्षयेति नाक्षरणविज्ञानविषयतामुपयाति । तत्र यथा मृद्रूपतातः प्रवृत्ति यावत् कुम्भावस्थेति, अस्मिन्नन्तराले आविर्भवताञ्च घटकपालशकलशर्कराकणादीनां रूपमपरमार्थसदेव व्यवहारपदवीमवतरति, परमार्थतस्तु 5 मृत्तिकैव । यथाहुः 'मृत्तिकेत्येव सत्यम्'इति, एवं तदपि मृत्तिकारूपं सत्तापेक्षया न परमार्थसदिति सत्तैव सर्वत्र परमार्था तदेव सल्लक्षणं ब्रह्मत्याहुः । आगमश्च 'एकमेवाद्वितीयम्'इत्यादिरभेदमेव दर्शयति 'नेह नानाऽस्ति किञ्चन मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति इति च । वेदस्य च सिद्धेऽप्यर्थे प्रामाण्यमुपवणितमेव भवद्भिः । न च प्रत्यक्षविरुद्धत्वमभेदशंसिनो वक्तुं शक्यमाग- 10 मस्य । न ह्यन्यनिषेधे प्रत्यक्ष प्रभवति, स्वरूपमात्रग्रहणपरिसमाप्तव्यापारत्वात् । पररूपमन्तरेण च भेदस्य दुरुपपादत्वाद्, भेदे कुण्ठमेव प्रत्यक्षमिति कथमभेदग्राहिणमागमं विरुन्ध्यात् । तदुक्तम्,
आहुर्विधातृप्रत्यक्षं न निषेध्यं विपश्चितः ।
नैकत्वमागमस्तेन प्रत्यक्षेण विरुध्यते ॥ तत्र शङ्का
नन्वेकमेव ब्रह्म न द्वितीयं किंचिदस्ति, तर्हि तद् ब्रह्म नित्यशुद्धबुद्धस्वभावत्वान्मुक्तमेवास्ते, केन तद्वद्धमिति, किमर्थोऽयं मुमुक्षूणां प्रयत्नः, कुतस्त्यो वा अयं विधिर्न जगदवभासकः ? अविद्योच्छेदार्थे मुमुक्षुप्रयत्न इति ब्रूमः, ततस्त्य एवायं विचित्रजगदवभासः ।
मृत्तिक्रेत्येव सत्यमिति । "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति । नामधेयं घट इति, विकारश्च पृथुबुध्नोदरत्वादिसन्निवेशविशेषः, वाचारम्भणं वागिन्द्रियस्य शब्दोच्चारणे प्रवर्तकम्, वस्तुतस्तु न किञ्चिन् मृत्तिकैव परमार्थ इति । वाचेति षष्ठयर्थे तृतीया। आरम्भणम् आलम्बनम् ।
___ सल्लक्षणं ब्रह्मेति । ब्रह्म हि व्वापकं सूच्यते । सत्तायाश्च सकलवस्तुव्यापकत्वात् 2E तत्त्वम् । न तु 'एकमेवाद्वितीयमेव' इत्यादेरागमस्य सिद्धार्थप्रतिपादकत्वेन प्रामाण्यमेव नास्तीति तदाह वेदस्य च सिद्धेऽप्यर्थ इति ।