________________
5
20
[ नवमम्
द्यात्मस्वरूपपरिज्ञानमेव तस्य परमपुरुषार्थतामवबोधयन् अस्य विधेरन्यप्रयोजनतामापादयति । कश्चित् किल संस्कारविधिः संस्क्रियमाणप्रयोजनापेक्षया परमुखप्रेक्षी भवति व्रीहीन् प्रोक्षतीतिवत् कश्चित्तु संस्क्रियमाणप्रयोजनमलभमानस्तदीप्सिततमत्वानिर्वाहणात् संस्कारविधित्वमेव जहाति सक्तून् जुहोतीतिवत् । यथोक्तम्,
25
२८
भूतभाव्युपयोगं हि द्रव्यसंस्कारमिष्यते ।
सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क्वचित् ।। इति । संस्कार्यमनर्घमिव रत्नमपर्युषितमिवामृतमनस्तमिव चन्द्रबिम्बमपरिम्लानमिव शतपत्रमस्ति । कस्तर्हि प्रकरणपाठापेक्षायामर्थंवादमुखप्रेक्षणे, 10 फलकल्पनायां वाभिलाषः ? अत एव न कामश्रुतप्रयुक्तत्वमाधानस्य, न चाचार्यकरणविधिप्रयुक्तत्वमध्ययनस्येति, तस्मात् स्वाध्यायाध्ययनाग्न्याधानविधिसमानयोगक्षेमत्वादात्मज्ञानविधेः तत एवात्मज्ञानमपवर्गार्थमवगम्यते । तथाविधस्वरूप आत्मैव परोपजनितधर्मरहितोऽपवर्ग इत्युच्यते यतस्तदिदमित्थमात्मज्ञानमेव निःश्रेयससाधनमनन्यलभ्यमिति तमेवोपदिष्टवाना15 चार्योऽक्षपादः । यत्तु विज्ञानसत्तात्मशब्दाद्यद्वैतदर्शनं तन्मिथ्याज्ञानं वेति न निःश्रेयससाधनम् ।
न्यायमञ्जय
ब्रह्माद्वैतदर्शनम
ननु कथमद्वैतदर्शनं मिथ्या कथ्यते तत् प्रत्युत द्वैतदर्शनम्, अविद्या, मायापि मिथ्याज्ञानमिति युक्तम् । तथा हि प्रत्यक्षमेव तावन्निपुणं निरूपयतु भवान् ।
व्रीहीन् प्रोक्षतीति व्रीहीणां पुरोडाशसाधनत्वाद् भाव्युपयोगित्वं संस्कारविधित्वमेव जहाति ।
सक्तून् जुहोतीतिवदिति । अत्र सक्तूनां भूतभाव्युपयोगाभावेनानपेक्षणात् संस्कार्यत्वाभावम् । न च प्रथाजादीनामिवेतिकर्तव्यताया अपेक्षणम्, होमसंस्कृतानामक्रियारूपत्वेनेतिकर्तव्यतात्वाभावात् सक्तूनाम्, होमस्य तु क्रियारूपत्वादितिकर्तव्यतात्वेनान्वय युक्तः स च द्रव्यापेक्षित्वात् तादर्थ्यमेव सक्तूनामिति । अत एव न कामश्रुतिप्रयुक्तत्वमाधानस्य तत्संस्कार्यस्य प्रयोजनवत्त्वेनैव तदर्थानुष्ठानसिद्धेः ।