________________
आह्निकम् ] प्रमेयप्रकरणम्
२७ ननु दृष्टप्रयोजनाला भे सत्यदृष्टप्रयोजनपरिकल्पनावसरः, इह च दृष्टमेव प्रयोजनमात्मज्ञानस्य कर्मप्रवृत्तिहेतुत्वमुपलभ्यते, नित्येनात्मना विना भूतेष्वेव चेतनेषु श्मशानावधिषु बहुवित्तव्ययायाससाध्यानि को नाम ज्योतिष्टोमादिकर्माण्यनुतिष्ठेदिति नित्य आत्मा परलोकी ज्ञातव्यः । एवं हि निर्विशङ्कः कर्मसु प्रवर्तेतेति। तदिदमनुपपन्नम्, अन्यत एव सिद्धत्वात् । प्रत्यभिज्ञाप्रत्यक्ष- 5 प्रत्ययेन, जैमिनीयैरनुमानमहिम्ना च नैयाथिकादिभिरात्मा नित्य इति निश्चित एव किमत्र विधिः करिष्यतीति । कर्त्तव्यताकलापोपदेशश्च तदानीमत्यन्तनिष्प्रयोजनः स्यात्, अमी च तथ्या नाम पातिमहान्तो वेदग्रन्था इयत्येव पर्यवसिता इति, तदिदमुपनतं सेयं महतो वंशस्तम्बाल्लट्वा निष्कृष्यत इति । तस्मादर्थवादसमर्पितमपुनरावृत्तिरूपमेव फलमात्मज्ञानविधिरवलम्बत 10 इत्येवं केचित् ।
सूक्ष्मतरदर्शिनस्त्वाहुः, इयमपि महती दुर्गतिर्यदर्थवादमुखप्रेक्षित्वम् अस्योत्तमाधिकारविधेः विश्वजिति रात्रिसत्रेवा किमन्यत् क्रियताम्, न हि विधिस्वरूपपर्यालोचनातः कश्चिदधिकारी लभ्यते इति बलात् स्वर्गकामादिः कल्प्यते वा अर्थवादसमर्पितो वावलम्ब्यते । यत्र तु विधिस्वरूपमहिम्नैव तदुपलम्भ- 15 स्तत्र किं कल्पनया, किमर्थवादवदनावलोकनदैन्येन वा । इह च स्वाध्यायोऽध्येतव्य इतिवदग्नीनादधीतेतिवद् वा कृत्येन द्वितीयया वेप्सिततमनिर्देशात तन्निष्ठत्वमेवावतिष्ठते। तत्र यथा अग्न्यर्यतया आधानविधिरवगम्यमानोऽग्नीनांमनेकविधपुरुषार्थापयिककर्मकलापोपयोगात् तदर्जनेनैव कृतार्थत्वमुपगत इति न फलान्तरमपेक्षते, यथा वा स्वाध्यायोऽध्येतव्य इत्यक्षरग्रहणार्थत्वा- 20 दस्य विधेरक्षरग्रहणस्य च फलवत्कर्मावबोधद्वारेण परमपुरुषार्थोपायत्वावधारणान्नतदतिरिक्तघृतमधुकुल्यादिफलान्तरापेक्षित्वम्, न चाध्ययनाविध्यङ्गत्वं स्वमहिम्नैवेप्सिततमसंस्कारद्वारकाधिकारलाभात् । एवमिहाप्यपहतपाप्मत्वा
इतिकर्तव्यताफलोपदेशश्चेति । उपासनादिक क्रमप्रतिपादकवाक्यविशेषाः ।
महतो वंशस्तम्बादिति । वंशस्तम्ब महान्तम्, तं छित्त्वा मध्याद् बालक्रीडनकस्य 25 लट वाभिधानस्य निष्कर्षणं यद्वदिति ।