________________
न्यायमञ्जयां
[ नवमम् तत्पूर्वोक्तप्रक्रमेणापवर्गप्राप्तेस्तत्त्वज्ञानमेवाभ्युपायः ।
कर्म त्वङ्गम्, तत्र शौचादि किञ्चित् किश्चित् स्यादात्मसंस्कारपूर्वम् । तत्त्वज्ञानस्यापवर्गसाधनतायां शङ्का
आह, तत्त्वज्ञानमिदानी चिन्त्यतां किंविषयं तदपवर्गाय कल्पते, कुतो 5 वा तस्य निःश्रेयससाधनत्वमवगतमिति ।
नन्वात्मज्ञानमपवर्गहेतुरिति बहुशः कथितमेवैतदिति कोऽयं प्रश्नः ? न, विप्रतिपत्तेः, विप्रवदन्ते ह्यत्र वादिन एक एवायमविद्यापरिकल्पितजीवात्मविभागः परमात्मा तत्त्वज्ञानादविद्यापाये मोक्ष इति ब्रह्मवादिनः । शब्दाद्वैत
निश्चयादिति वैयाकरणाः । विज्ञानाद्वैतदर्शनादिति शाक्यभिक्षवः । प्रकृतिपुरुष10 विवेकविज्ञानादिति पारमर्षाः । ईश्वरप्रणिधानादिति चान्ये । तदेवं कस्मै
तत्त्वज्ञानाय स्पृहयन्तु मुमुक्षव इति वाच्यम् । आत्मतत्त्वज्ञानमेव निःश्रेयससाधनम्
उच्यते, भिन्नास्तावदात्मान इति गृह्यताम्, आत्मज्ञानमेव च निःश्रेय___ साङ्गमिति। यत्तु कुतस्तस्य नि श्रेयससाधनत्वमवगतमिति, अक्षपादवचनादिति 15 ब्रूमः । अक्षपादस्तावदिदमुपदिष्टवान् ‘आत्मज्ञानानिःश्रेयसाधिगमः' इति । न च
निष्प्रमाणकमर्थमेष ऋषिरुपदिशतीति भवितव्यमत्र प्रमाणेन । तत्तु वैदिकविधिवाक्यम् ‘आत्मा ज्ञातव्यः' इति । स एष तावन्निरधिकारो विधिः । अधिकाररहितस्य च विधेः प्रयोगयोग्यत्वाभावादधिकारान्वेषणमपक्रमणीयम् ।
परप्रकरणपरिपठनविरहाच्च नास्य सम्पदादिविधिवत् प्रधानाधिकार20 निवेशित्वम्,अतो विश्वजिदधिकरणन्यायेन स्वर्गकाममधिकारिण मिह यावदुपात्त
मध्यवस्यामस्तावदेव च 'न पुनरावर्त्तते' इत्यर्थवादसमर्पितेयमपुनरावृत्तिरेव हृदयपथमवतरति 'रात्रिसत्र इव प्रतिष्ठा' इति तामेवास्य फलत्वेन प्रतिपद्यामहे ।
सा चेयं साध्यमानापि रूपादेव हि शाश्वती। - चकास्त्यपुनरावृत्तिर्न स्वर्गवदपायिनी ।। आत्मसंस्कारपूर्वमिति । आत्मसंस्कारस्य कैवल्यप्राप्तियोग्यतायाः कारणम् ।