________________
आह्निकम् ] प्रमेयप्रकरणम्
२५ सामग्रयभावात् कयं भोक्तृतां गच्छेदिति चेत्, कर्माण्यपि सहकार्यभावात् कथं कार्यमारभेरन् ? न च कर्मणां बन्धकरणे रागादयो न सहकारिण इति वक्तुं शक्यम्, 'वीतरागस्य जन्मादर्शनात्' इत्यसकृदुक्तत्त्वात् । तस्मादयमेव सूत्रकारोपदिष्टः पन्थाः पेशलः, 'न प्रवृत्तिः प्रतिसन्धानानाय हीनक्लेशस्य' इति । ज्ञानकर्मसमुच्चयस्य मोक्षहेतुत्वखण्डनम् ___ यच्चेदमुच्यते 'ज्ञानकर्मसमुच्चयान्मोक्षः' इति, तत्रेदं वक्तव्यम्, कर्मणां कीदृशो मोक्षं प्रत्यङ्गभावः ? न हि कर्मसाध्यो मोक्ष इत्युच्यते, स्वर्गादिवदनित्यत्वप्रसङ्गात् । अपि चात्मैव स्वरूपावस्थितो मोक्ष इत्युच्यते, न चात्मस्वरूपं कर्मसाध्यम्, अनादिनिधनत्वेन सिद्धत्वात् ।
10 ननु नित्यकर्माननुष्ठाने प्रत्यवेयादिति तद्द्वारकबन्धपरिहारोपायत्वात् कर्मापि मोक्षाङ्गं स्यात् ? न, सन्न्यासविधानस्य प्रत्यक्षोपदेशादित्युक्तत्वात् । अपरिपक्वकषायाणां शनैः शनैस्तत्परिपाकौपयिकत्वेन कर्मानुष्ठानं पारम्पर्येणापवर्गोपाय इति तु बाढमभ्युपगम्यते । यथाह मनुः,
'महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः' इति ।
अध्यात्मविदश्च ज्ञानकाण्डौपयिकमेव क्रियाकाण्डमन्यत्, साक्षात्तु कर्मसाध्येऽपवर्गे स्वर्गवदपायित्वप्रसङ्गात्, कृतकस्य सर्वस्यानित्यत्वात् तत्त्वज्ञानमेव मोक्षोपाय इत्युक्तम् ।
यदपि यमनियमादिषु साध्यभूतं तदपि तदङ्गतां गच्छन् न वार्यते, तत्कार्यत्वेऽपि यावद्गुणप्रध्वंसाभावस्वभावत्वान्मोक्षस्य न क्षयित्वं स्वर्गवद- 20 दन्यस्तु न मोक्ष इत्युक्तम् ।
___ अध्यात्मविदश्चेति । यथोक्तं प्राक् श्रौतस्मातकर्मानुष्ठानात् कषायपरिपाकद्वारेणोत्पन्नातिशयस्य आत्मज्ञानेऽधिकारात् । “तमेव वेदानुवचनेन ब्राह्मणाविविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन च" इत्यादिविधिभिश्च कर्मणामात्मज्ञानसहकारित्वेन विनियोगात् । यथा प्रतिपादितम् “महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः" इति। 25
न्या० म०४