________________
न्यायमञ्ज
[ नवमम्
कुर्यादिति । न खलु सुलभोऽयं पुरुषार्थः । किं न श्रुतमिदमायुष्मता व्यासवचनम्,
'अनेकजन्मसंसिद्धस्ततो याति परां गतिम्' इति ।
ज्ञानाग्निदाहवचनन्तु ज्ञानप्रशंसार्थमेव । सोऽयं ज्ञानकर्मसमुच्चयान्मोक्ष उच्यते। उपभोगेन क्षये कर्मणां न मोक्षसम्भावनैव
अत्राभिधीयते, न खलु फलोपभोगद्वारकः कर्मणां परिक्षयो जन्मशतैरपि शक्यक्रियः । उक्तं हि,
एकमेवेदृशं कर्म कर्तुमापतति क्वचित् । जन्मायुतशतेनापि यत्फलं भुज्यते न वा ।। देहैस्तत्कर्मभोगाथैः कर्मान्यन्न करिष्यते ।
कर्मसाधनमित्येषा दुराशैव तपस्विनाम् ।। तदीदृशमेनं मोक्षपथमुपदिशद्भिर्याज्ञिकैर्मोक्षोपेक्षणमनक्षरमुपदिष्टं भवतीति, तस्मात् पूर्वोक्तनीत्यैव कर्मणां बन्धहेतुत्वमपाकरणीयम् ।
ननु पक्षचतुष्टयेऽपि दोष उक्तः ? न, चतुर्थपक्षस्य निरवद्यत्वात् सहकारिवैकल्यात कुसूलावस्थितबीजवत् कर्मणामनारम्भकत्वे सति न कश्चिद्दोषः । एष एव च तेषां दाहो यत् कार्यानारम्भकत्वम् ।
___ नन्वविनष्टस्वरूपाणि कुसूलबीजवदेव कदाचिदारप्स्यन्ते कार्याणि तस्माद्
वरमुच्छिद्यन्तामेव, किमिदानीं नित्यमात्मानमप्युच्छेत्तुं यतामहे स हि पुरा 20 भोक्ताभूदिति मुक्तोऽपि पुनर्भोक्तृतां प्रतिपद्यतेति वरमुच्छिद्यतामेव ।
प्रस्तुतायां मध्ये वृष्टिसम्भवेऽपि तां समापयत्येव शिष्टविगर्हणभयादेव। किं त्वया ज्ञातमधुनैव हुंकृत्येति। हुंकृत्येत्यनेन शैवशास्त्रप्रसिद्धं दोक्षाविधानमन्त्रं सोत्प्रासं दर्शयति । ते हि विशिष्टमन्त्रोपपादितदीक्षासमनन्तरमेवाशेषपाशविमोचनाद् मुक्तिमभिमन्यन्ते ।
ज्ञानकर्मसमुच्चयात् । ज्ञानेन नित्यकर्मानुष्ठानेन च । ३ मोक्षपथमुपदिशद्भिर्याज्ञिकैरिति । भद्रान् (भाट्टान् ?) परामृशति ।