________________
२३
आह्निकम् ]
प्रमेयप्रकरणम् आत्मतत्त्वज्ञस्य नित्यकर्मानुष्ठानेऽपि मोक्षसम्भावना
ननु नित्यकर्मानुष्ठानपक्षे नास्त्येव मोक्षः, यान्येव हि नित्यानि दर्शपौर्णमासादिकर्माणि ‘यावज्जीवं दर्शपौर्णमासाभ्यां यजेत'इत्यादिचोदनोपदिष्टानि तान्येव फलवन्ति श्रयन्ते इति काम्यान्यपि भवितुमर्हन्ति, 'दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत, अग्निहोत्रं जुहुयात् स्वर्गकामः' इति । न, फलाभिसन्धान- 5 पूर्वकत्वेनाप्रयोगात् । यथाह, |
प्रार्थ्यमानं फलं ज्ञातं नानिच्छोस्तद्भविष्यति । इति संयोगप्रवृत्तौ विशेषः, प्रयोगेऽपि विशेषः । काम्यं कर्म 'सर्वाङ्गोपसंहारेण प्रयुज्यमानं फलसाधनमिति । यथा शक्तिस्तत्तथा प्रयोक्तव्यमिति, नित्यस्य कर्मणोऽकरणात् प्रत्यवाय इति यथाशक्त्यपि तत् 10 प्रयोक्तव्यम्, अनुष्ठाता तु सर्वाण्यङ्गानि यद्यसावुपसंहर्तुं न शक्नुयान्मा प्रतिष्ट न त्वप्रवर्तमानः प्रत्यवेयादिति । एवं तदेव दर्शपौर्णमासादिकर्म 'यावज्जीवम्' इति चोदनयोपदिष्टं नित्यं सत् तत्फलानभिसन्धानात् प्रयुक्तं न बन्धाय कल्पते। क्व सा स्वर्गसाधनशक्तिरस्य गतेति चेत्, न वयं कर्मणां शक्तिमशक्ति वा प्रत्यक्षतः पश्यामः, शास्त्रैकशरणास्तु श्रोत्रिया वयम् । चोदनैव धर्मे प्रमाणमिति 15 नः कूलव्रतमेतत् । सा च चोदनैकत्र कामिनमधिकारिणमाश्रित्य प्रवृत्ता तदधिकारश्च फलनिर्वृत्तेविना न स्यादिति फलपर्यन्ततां प्रतिपद्यते, अन्यत्र तु यावत्पदोपबद्धजीवनपदार्थावच्छिन्नाधिकारिलाभेन प्रवर्तमाना न फलाय भवति, अक्रियमाणे तु शास्त्रार्थे प्रत्यवायाय प्रभवत्यधिकृतेन सता शास्त्रार्थस्त्यक्त इति । काम्ये त्वनुत्पन्नकामोऽधिकृत एव न भवति इति नाधिकृतेन सता 20 विधिस्त्यक्त इति न प्रत्यवतीति । उपक्रम्य त्वन्तराले त्यक्तुं न लभ्यत एव, वीतायां फलेच्छायामवाप्ते वा फले तत्कर्मसमापनमवश्यकर्त्तव्यमेव तदित्यलं शास्त्रान्तरगर्भेण भूयसा कथाविस्तरेण, सर्वथा सुष्ठूक्तं नित्यनैमित्तिके
वीतायां फलेच्छायामिति । तथाहि, फलेच्छया कर्मणि प्रवृत्तस्य यदि मध्ये फलेच्छा व्यपेयात् तथाप्यसौ शिष्टविगर्हणभयात् कर्म समापयति एवं वृष्ट्यर्थं च कारीयाँ 25