________________
[ नवमम्
मप्युच्छेदान्न विशिष्यते । उक्तस्यात्मनो विभुत्वादपरिहार्यो मनः संयोगः, न च तदानीमसौ सन्नपि सुखदुःखज्ञानादिजन्मनि व्याप्रियते, एवं धर्माधर्मौ सन्तावपि फलमाक्षिपन्तौ किं करिष्यत इति फलत उच्छिन्नावेव भवतः । तस्मान्नवानामात्मगुणानामुच्छेदोऽपवर्ग इत्यविरुद्धम् । एवं प्रवृत्त्यनुबन्धस्यापि बन्ध5 हेतोरभावान्न दुर्गमोऽपवर्गः ।
10
15
20
25
२२
न्यायमञ्जय
कर्मणामुपभोगादेव क्षय इति मतम्
अपरे पुनराहुः, कर्मफलानां शास्त्रतः कार्यकारणभावनियमावगतेः शमसन्तोषशीतातपादिद्वारकसुखदुःखमात्रोपपादनेन कर्मपरिक्षयानुपपत्तेः, योगद्ध च दीर्घकालावधिसुखदुःखोपभोगस्य सकृदेव सम्पादयितुमशक्यत्वात्, ज्ञानाग्निना च दाहे तत्कर्मोपदेशिवैदिकवचनसार्थानर्थक्यप्रसङ्गात्, अदत्तफलस्य कर्मणोऽनुपरमात्, अवस्थानपक्षे चिरमप्युषित्वा कुसूलावस्थितबीजवत् कालान्तरेणापि तत्फलाक्षेपप्रसङ्गादवश्यं स्वफलोपभोगद्वारक एव कर्मक्षयो वाच्यः । न चानिर्मोक्ष आशङ्कनीयश्चिरादपि तत्सिद्धिसम्भवात् । च मुमुक्षुनित्यनैमित्तिकं कर्मावश्यमनुतिष्ठेदननुतिष्ठन् प्रत्यवेयादिति तत् कुतोऽस्य बन्धः स्यात् । काम्यं निषिद्धञ्च कर्म स्वर्गनरककारि विस्पष्टमेव बन्धसाधनमिति तत् परिहरेदेवेत्येवं तावदुत्तरोऽस्य न कर्मसञ्चयः प्रवर्तते ।
तथा
तदाह,
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया ।
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ॥ इति ।
प्राक्तनस्य तु कर्मसञ्चयस्य भोगादेव क्षयः । आत्मविदश्च मुमुक्षोरयमनुष्ठानक्रमो भवति नेतरस्येति स एवेत्थमपवर्ज्येतेति । आह च,
आत्मज्ञे चैतदस्तीति तज्ज्ञानमुपयुज्यते । तत्र ज्ञातात्मतत्त्वानां भोगात् पूर्वक्रियाक्षये ॥ उत्तरप्रचयासत्त्वाद्देहो नोत्पद्यते पुनः ।
“प्राथ्यंमानं फलं ज्ञातं नानिच्छोस्तद्
आत्मज्ञे चैतदस्तीत्यस्य पूर्वमर्धम्,
भविष्यति” । इति । उत्तरस्य भाविनः कर्मप्रचयस्याकरणादेवासत्त्वात् ।