________________
आह्निकम् ] प्रमेयप्रकरणम्
२१ नयन्ति, तत्त्वज्ञानस्यैव भगवत इयान् प्रभावो यदस्मिन्नुत्पन्ने चिरसश्चितान्यपि कर्माणि सहसैव प्रलयमपयान्ति, भोगादपि तेषां प्रक्षयः शास्त्रप्रामाण्यादेवावगतः, तथा तत्प्रामाण्यादेव तत्त्वज्ञानादपि तत्प्रक्षयं प्रतिपत्स्यामहे । तथा चाह,
यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ इति । न चेदं श्रद्धामात्रं वेदविदामग्रण्या व्यासमुनिनैव समभिधानाद् अवेदार्थ हि नासावभिदधीतेति । दोषक्षयेऽपि कर्मणां न दाह इति मतप्रदर्शनम्
तदन्ये न मन्यन्ते, न सर्वात्मना कर्मणां दाहः किन्तु स्वरूपेण सतामपि 10 सहकारिवैकल्यात् स्वकार्यकरणोदासीनता तेषां भवति भृष्टानामिव बीजानामङ्करकरणकौशलहानिः । यतः सामग्री कार्यस्य जनिका न केवलं कारकम् अतो न कर्माण्येव केवलानि फलोपभोगयोग्यशरीरेन्द्रियादिजन्मनिमित्ततामपयान्ति किन्तु मिथ्याज्ञानेन दोषैश्च सहितानि । तदुक्तम् 'अविद्यातृष्णे धर्माधर्मों च जन्मकारणम्' इति । तत्त्वविदश्च तत्त्ववित्त्वादेव नाविद्या मिथ्याज्ञानात्मिका 15 भवति, दोषाणान्तु प्रशमे दर्शित एव क्रमः, तदभावे भवन्तावपि धर्माधर्मों न बन्धाय कल्पेते। न हि स्वकार्यमकुरादि कुसूलवर्तीनि बीजानि जनयितुमुत्सहन्ते, भृष्टबीजानामपि स्वरूपशक्तिरपि तानवं गता, तद्वत् कर्मणां स्वरूपशक्तिशैथिल्यं नाम मा भूत् तथापि कुसूलवर्तिबीजवत् सहकारिवैधुर्यात् कार्यानारम्भ इति । तदिदमुक्तम् 'न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य' 20 इति । कर्मसु स्वरूपेण स्थितेषु कथमपवर्ग इत्यस्य परिहारः
ननु स्वरूपसत्तायां धर्माधर्मयोः कथमिदमुक्तम् 'नवानामात्मगुणानां निर्मलोच्छेदोऽपवर्ग' इति, नैष दोषः, मनःसंयोगवदकिञ्चित्करयोरवस्थान
अविद्यातृष्णे इति । तृष्णाशब्देन रागादयः क्लेशा अभिहिताः ।