________________
२०
न्यायमञ्जऱ्यां
[ नवमम्
क्लेशानाम्'इति, तदप्यसत्यम्, सुषुप्तावस्थायामस्पृष्टस्य दोषैरात्मनः प्रत्यहमुपलम्भात्, जाग्रतोऽपि काचन तादृशी दशा दृश्यत एव यस्यामेवात्मस्वरूप एवात्मा निर्मलोऽवतिष्ठते । यथोक्तम् 'अहरहर्ब्रह्मलोकं यान्ति' इति, तदलमनेन दोषानुबन्धकथानुबन्धेन।
यदपि प्रवृत्त्यनुबन्धादिति, तदपि सूत्रकृता समाहितम्, 'न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य'इति । दोषेषु बन्धहेतुषु विगलितेषु प्रवृत्तिरपि न देहेन्द्रियादिजन्मने प्रभवतीति । दोषक्षयान्तरमनुष्ठितानां फर्मणां न बन्धहेतुत्वम्
ननु दोषक्षयान्मा भूदुत्तरः कर्मसङ्ग्रहः ।
कथं फलमदत्त्वा तु प्राक्तनं कर्म शाम्यति ।। अत्र केचिदाहः, ददत्येव कर्माणि फलम्, दत्त्वा शाम्यन्ति, तथापि न बन्धहेतवो भवन्ति, यतः शमसन्तोषादिजनितं योगिनः सुखमुपपाद्य धर्मो विनक्ष्यति, अधर्मश्च शीतातपक्लेशादिद्वारकं दुःखं दत्त्वेति ।
नन्वमुष्मात् कर्मण इदं फलं भवतीति कर्मफलानां कार्यकारणभाव15 नियमात् कथमियता कर्मफलोपभोगो भवेदित्यन्यथा तदुपभोगमपरे वर्णयन्ति,
योगी हि योगद्धिसिद्धया विहितनिखिलनिजधर्माधर्मकर्मा निर्माय तदुपभोगयोग्यानि तेषु तेषूपपत्तिस्थानेषु तानि तानि सेन्द्रियाणि शरीराणि रण्डान्तःकरणानि च मुक्तैरात्मभिरुपेक्षितानि गृहीत्वा सकलकर्मफलमनुभवति
प्राप्तैश्वर्य इतीत्थमुपभोगेन कर्मणां क्षयः । 20 ज्ञानेनैव कर्मक्षयः
अन्ये त्वाचक्षते, किमनेन भोगायासेन अदत्त फलान्येव कर्माणि योगिनो
रूपेणोत्पन्नस्य च तस्यैव पुनरुत्पत्त्या सदात्मनस्तैरवियुतत्वात् तदनुबन्धित्वम्' ।
अहरहर्ब्रह्मलोकं यान्तीति । सुषुप्तावस्थाभिप्रायेणाह।
'न प्रवृत्तिः प्रतिसन्धानाय' इति पदं 'न देहेन्द्रियजन्मने प्रभवति' इत्यनेन 25 व्याख्यातम् ।