________________
आह्निकम् ]
प्रमेयप्रकरणम् इह सर्वात्मनोच्छेद्याः क्लेशाः संसारकारिणः ।
छेदश्चैकान्ततस्तेषां प्रतिपक्षोपसेवनात् ।। न च प्रतिपक्षभावनाभ्यासमेकमस्त्रमपास्य तदुपशमे निमित्तान्तरं किमपि क्रमते, न हि विषयाभिलाषस्तदुपभोगेन विरंस्यति । यथाह,
न जातुः कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्मेव भूय एवाभिवर्धते ।। अन्यत्राप्युक्तम्, मोक्षाभ्यासमनुविवर्धन्ते कौशलानि चेन्द्रियाणाम् इति । पाराशर्योऽपि,
तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते ।
या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते ॥ इति । 10 तस्मात् प्रतिपक्षभावनैव भगवती भीमकान्तिरन्तःकरणकान्तारे निरन्तरमभिज्वलन्ती दावदहनदीधितिरिव दहति दोषविटपकानिति । तदेवं दोषानुबन्धविध्वंसोपायसम्भवान्न तत्कृतो मोक्षमार्गरोधोऽभिधातव्यः, अत एव केचन चेतनस्य प्रकृत्या निर्मलत्वान्मलानामागन्तुकत्वान्मलनिबर्हणहेतोश्च यथोक्तस्य सम्भवात् तदावरणापाये सति स्वतः सकलपदार्थदर्शन- 15 सामर्थ्यस्वभावचित् तत्त्वावस्थानात् सर्वज्ञत्वसिद्धिमदूरवर्तिनीमेव मन्यन्ते । क्लेशशून्यत्वमात्मनोऽनपवर्गेऽपि सिद्धयति
यदप्युच्यते, 'क्लेशशून्यत्वमात्मनो न कदाचिदपि दृष्टमनुबन्धवृत्तित्वात् न जातु कामः कामानामिति । काम्यन्त इति कामा विषयास्तेषाम् । भोगाभ्यासमनु भोगाभ्यासानन्तरमेव पुनस्तदुपभोगविषया रागा अभिलाषाः। 20 कौशलानि चेन्द्रियाणां यद्बलादनिच्छयापि तेषु विषयेषु प्रवर्तन्ते । अत एव केचनेत्यादि अर्हदृष्ट्याह । यथोक्तस्य तत्त्वज्ञानलक्षणस्य ।
मलानामागन्तुकत्वादिति । यथा स्फटिकस्य स्वच्छस्यौपाधिको वर्णान्तरानुरागः, एवं स्वच्छस्यात्मनो मिथ्याज्ञानप्रभवो मलसम्भव इति । सूर्यस्येवाभ्रादिकावरणापगमे स्वरूपेणावस्थानमिति।
अनुबन्धवृत्तित्वात् क्लेशानामिति अनुबन्धेनैकस्योत्पत्तौ पुनरन्यस्योत्पत्तिरित्येवं
25