________________
न्यायमञ्ज
[ नवमम् विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः । अन्तर्मज्जा स्थिविण्मूत्रमेदःक्रिमिकुलाकुलम् ॥ अस्थीनि पित्तमुच्चाराः क्लिन्नान्यन्त्राणि शोणितम्। इति चर्मपिनद्धं सत् कामिनीति विधीयते । मेदोग्रन्थी स्तनौ नाम तौ स्वर्णकलशौ कथम् । विष्ठादृतौ नितम्बौ च कोऽयं हेमशिलाभ्रमः ॥ मूत्रासृगद्वारमशुचि च्छिद्रं क्लेदि जुगुप्सितम् । तदेव हि रतिस्थानमहो पुंसां विडम्बना । प्रीतिर्यथा निजास्योत्थं लिहतः शोणितं शुनः । शुष्केऽस्थनि तथा पुंसः स्वधातुस्पन्दिनः स्त्रियाम् ।। व्यात्तानना विवृत्ताक्षी विवर्णा श्वासघुघुरा । कथमद्य न रागाय म्रियमाणा तपस्विनी ॥ अहो व्रणे वराकोऽयमकाले तृषितः फणी। प्रसारितमुखोऽप्यास्ते शोणितं पातुमागतः ॥ किमनेनापराद्धं नः स्वभावो वस्तुनः स्वयम् । स्पृश्यमानो दहत्यग्निरिति कोऽस्मै प्रकूप्यति ॥ नानुकूल: प्रिये हेतुः प्रतिकूलो न विप्रिये ।
स्वकर्मफलमश्नामि कः सुहृत् कश्च मे रिपुः ॥
एवमहर्दिवं चिन्तयतां नितान्तं मनःसमचित्तता सर्वत्र समुद्भवतीति 20 विलीयन्ते दोषग्रन्थयः ।
अत एवोपदिश्यन्ते मोक्षशास्त्रेष्वनेकशः । । तस्य तस्योपघाताय तास्ताः प्रत्यूहभावनाः ॥ ननु च प्रतिपक्षभावनेऽपि न सर्वात्मना दोषपक्षः क्षयमुपयाति निम्बाद्युपयोगे इव क्रियमाणे कफधातुरिति, नैतदेवम्, तत्र निम्बोपयोग25 वत् तदनुकूलस्यातपादेरुपयोगदर्शनात् । अपि च,
धमिलोपभयात् तत्र नेष्ट: सर्वात्मना क्षयः । कफाधिक्यन्तु हन्तव्यं धातुसाम्यस्य सिद्धये ॥