________________
आह्निकम् ] प्रमेयप्रकरणम्
. १७ यत्तु क्लेशानुबन्धादिति तदप्यनध्यवसायमात्रम्, प्रतिपक्षभावनादिना क्लेशोपशमस्य सुशकत्वात् । यद्येषां नित्यो हेतुर्भवेत् कार्यो वा, यद्यसौ न ज्ञायेत, ज्ञातोऽपि वानुष्ठातुमसौ न शक्येत तदा क एवैनमुच्छिन्द्यात् । किन्तु,
नाकस्मिका न नित्यास्ते न नित्याज्ञातहेतुकाः ।
नाज्ञातशमनोपाया न चाशक्यप्रतिक्रियाः ॥ न हि दोषाणामात्मस्वरूपवन्नित्यत्वमुपजननापायधर्मकत्वेन ग्रहणात्, मिथ्याज्ञानञ्च प्रसवकारणमेषामवधृतमिति नाकस्मिकत्वम्, अविनाशिहेतुकत्वम्, अज्ञातहेतुकत्वं वा । मिथ्याज्ञानस्य च सम्यग्ज्ञानं प्रतिपक्षः, प्रतिपक्षभावनाभ्यासेन च समूलमुन्मूलयितुं शक्यन्ते दोषा इति नाज्ञातप्रतीकारत्वं तेषाम् । उक्तञ्च केनचित्,
सर्वेषां सविपक्षत्वानि सातिशयाश्रिताः ।
सात्मीभावात् तदभ्यासाद्धीयेरन्नामुना क्वचित् ॥ इति । रागशमनाथं विषयेषु दोषदर्शनम्
विषयदोषदर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति यदा ह्येवं चिन्तयति विवेकी ।
असौ तरलताराक्षी पीनोत्तुङ्गघनस्तनी।
विलुट्यमाना कान्तारे विहगैरद्य भक्ष्यते ॥ सर्वेषां सविपक्षत्वादिति । येन बाधकेन नैरात्म्यदर्शनेन विपक्षाः सर्वे आस्रवा रागादयः । तस्य बाधकस्याभ्यासाद् नैरन्तर्येणोत्पादात् सात्मीभावस्तन्मयत्वम्, तस्माद् बाधकसात्मीभावात् । क्वचित् सन्ताने हि परं ते नि सातिशयाश्रिता अपकर्षोत्कर्ष- 20 स्वभावाः, तथा चापकर्षोत्कर्षस्वभावत्वेन विपक्षाभिभवस्याप्यपकर्षोत्कर्षसिद्धिः । निर्हासधर्मत्वे तेषां विपक्षकृतस्याभिभवस्योत्कर्षः। अतिशयधर्मत्वे त्वनुच्छेदाद् विपक्षकृतस्यापकर्षस्तदुच्छेदासमर्थत्वात् । आस्रवन्ति भवाग्राद् अवीच्यग्रं पातादित्यास्रवा रागादिदोषाः, आसयन्ति वा आसंसारमित्यास्रवाः । तदुक्तम्,
आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ ।
उपगृह्णन्ति चेत्येवमास्रवादिनिरुक्तयः ।। न्या० म०३
25