SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जयां [ नवमम् क्रियाकाण्डानुष्ठाननिष्ठत्वे हि वेदस्य ज्ञानकाण्डोपदेशः किम्प्रयोजनः स्यात् । तदेवं वर्णवदाश्रमाणामपि चतुर्णां प्रत्यक्षोपदेशसिद्धत्वाच्चतुर्थाश्रमिणाञ्च मोक्षाधिगमोपायतत्त्वज्ञानभावनाभ्यासावसरसम्भवात् सोऽयं जरामर्यवादः प्रशंसामात्रपर एवावतिष्ठते, 'जरया ह वा एष एतस्मान्मुच्यते मृत्युना वा' इति च वचनाजरसा कर्मत्यागानुज्ञानात् स एव चतुर्थाश्रमावसर इति गम्यते । तदुक्तम्, गृहस्थस्तु यदा पश्येद् बली पलितमात्मनः । अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ इतरथा हि मृत्युनैव च तस्मान्मुच्यते इत्यवक्ष्यत न त्वेवमब्रवीत्, 10 तस्माद्वार्धकदशोचितं चतुर्थमाश्रममनुमन्यते । गृहस्थोऽपि मोक्षाधिकारी तिष्ठतु वा वार्धकदशा यतोऽपि परिपक्वकषायस्याश्रमचतुष्टयक्रममनपेक्ष्यैव मोक्षाधिकार आख्यातः । यथोक्तं 'ब्रह्मचर्यादेव प्रव्रजेत्' इति । अत एव द्विविधो ब्रह्मचारी भवत्युपकुर्वाणो नैष्ठिकश्च, तत्रोपकुर्वाणको यो ब्रह्मचर्यमनुभूय 15 गृहस्थाश्रममनुभवति स चापरिपक्वकषायोऽनुपशान्तगार्हस्थ्यरागस्तमेव प्रतीदमुच्यते । अनधीत्य द्विजो वेदाननुत्पाद्य च सन्ततिम् । अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ।। इति । यस्तु परिपक्वकषायः स नैष्ठिक एव ब्रह्मचारी भवति न गृहस्थाश्रम 20 प्रतिपद्यते । गृहस्थोऽपि परिपक्वकषायो वानप्रस्थाश्रममुल्लध्य यतित्वेऽधिक्रियते । यथोक्तम् ‘गृहाद् वनाद् वा प्रवजेत्' इति । केचित्तु कर्मफलाभिसन्धिरहितस्य कर्तव्यमिति कर्म कुर्वतः क्षीणरागस्यात्मविदो गृहस्थस्यापि मोक्षः । योऽतिथिप्रियः श्राद्धकृद् वेदविद्याविद् गृहस्थोऽपि विमुच्यते इति, तस्मादृणानुबन्धादपवर्गाभाव इत्ययुक्तम् । 25 अपरिपक्वकषाय इति । अस्यैवानुपशान्तराग इति पर्यायकथनम् ।
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy