________________
10
आह्निकम् ]
प्रमेयप्रकरणम् ह वै ब्राह्मण इति' । न तद्व्यतिरिक्तपुरुषार्थविषयप्रयत्नप्रतिषेधो विधीयते । तथा हि ऋणशब्दोऽयं विषयान्तरे मुख्यार्थः प्रसिद्धो यत्रोत्तमर्णः सलाभममतः प्रतिग्रहीष्यामीति धनमधमय प्रयच्छति, अधमर्णोऽपि सलाभमस्मै प्रदास्यामीति मत्वा गृह्णाति, सोऽयमृणशब्दस्य मुख्यो विषय इह नास्त्येव, जायमानोऽपि मुख्य उत्पद्यमानोऽपि मातुः कुक्षिकुहरान्निस्सरन्नभिधीयते, न चासौ बालकः 5 कर्मभिरभिसम्बध्यते, तस्माद् ब्रह्मचर्यमपत्योत्पादनमध्वरप्रयोग इति त्रयमिदमवश्यकर्तव्यमिति कर्मस्तुतिरियम् औपचारिकपदप्रयोगाद् गम्यते, न चैतावता मोक्षव्यवसायावसरविरह इति परिशङ्कनीयम्, आश्रमान्तरस्य तदौपयिकस्य दर्शनात् । चतुर्थाश्रमसमर्थनम् ____ननु मरणावधिदर्शपूर्णमासकर्मोपदेशात् कथमाश्रमान्तरग्रहणम् ? न जरामर्यवादस्याप्यपरित्यागप्रतिपादनाय कर्मप्रशंसार्थत्वात्, 'ये चत्वारः पथयो देवयानाः' इत्यादयो हि चतुर्थाश्रमशंसिनो भूयांसः सन्ति मन्त्रार्थवादाः, मन्वादिस्मृतिवचनानि चतुर्थाश्रमोपदेशीनि चतुर्थाश्रमोचितश्रौताचारादीतिकर्तव्यतावितानविधानपराणि च प्रबन्धेनैव दृश्यन्ते ।
एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः ।
वने वसेत्तु नियतो भैक्षभुग विजितेन्द्रियः ।। .. इत्युपक्रम्य चतुर्थाश्रमोचितमोक्षोपायानुष्ठानोपदेशाय षष्ठोऽध्यायः समस्त एव मनुनानुक्रान्तः, जाबालश्रुतौ च विधायकेनैव ब्राह्मणवाक्येन प्रतिपदमाश्रमचतुष्टयमुपदिष्टम्, 'ब्रह्मचारी भूत्वा गृही भवेद् गृही भूत्वा 20 वनी भवेद्वनी भूत्वा प्रव्रजेत्' इति, अग्निसमारोपणविधानोपदेशश्च प्रत्यक्षश्रुतः कथमपह्नयेत ‘आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात्'इति, अपि च उपनिषदामध्ययनमसति मोक्षोपयोगसमर्थे चतुर्थाश्रमे निरर्थकमेव प्राप्नोति,
ये चत्वारः पथय इति । आदिपदेन 'ये चैते अरण्ये श्रद्धा-तप इत्युपासते' इत्येवमादीनां परिग्रहः। पन्थानः देवयाना देवत्वप्राप्तिहेतवः ।
अग्निसमारोपणविधिश्चेति समारोपणं विलोड्य भस्मनः पानम् ।
25