SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जयां [ नवमम् इत्येवं निदानानुपशमादपि स्थित एव क्लेशानुबन्धः । प्रवृत्त्यनुबन्धः खल्वपि, रागादिप्रेर्यमाणो हि कर्माण्यारभते नरः । दीर्घदीर्घाः प्रतायन्ते यैर्धर्माधर्मवासनाः ।। स प्रवृत्त्यनुबन्धश्च हेतुरन्यस्य जन्मनः । एकमेवेदृशं कर्म कर्तुमापतति क्वचित् ॥ जन्मायुतशतेनापि यत्फलं भुज्यते न वा ॥ क्लेशकर्मानुबन्धोत्थजन्मदुःखादिशृङ्खला । पुनरावर्तमानैषा केनोपायेन भज्यताम् ।। विना फलोपभोगेन न हि नाशोऽस्ति कर्मणाम् । तेषां ज्ञानाग्निना दाह इति श्रद्धाविजृम्भितम् ॥ कार्यकारणभावो हि शास्त्रादेवावधारितः । कर्मणाञ्च फलानाञ्च स कथं वा निवर्तताम् ।। न चास्य ज्ञानसापेक्षं कर्मेष्टं बन्धकारणम् । येनात्मज्ञानयुक्तानां तदुदासीत तं प्रति ।। अज्ञाननरपेक्ष्येण कर्मणां स्वभाव एवैष यत् फलाविनाभावित्वमिति । . तस्मादित्थमृणक्लेशप्रवृत्त्यभ्यनुबन्धतः । न मोक्षसिद्धिरस्तीति तदर्थो विफल: श्रमः ॥ अशक्येऽर्थे वृथायासं परित्यज्य मनस्विभिः । मोक्षचर्चाः परित्यज्य स्वे गृहे सुखमास्यताम् ॥ मोक्षोपायानामनुष्ठानयोग्यत्वम् . अत्राभिधीयते, यत् तावदुक्तमृणानुबन्धादिति, तदयुक्तम्, विधिपक्षश्रवणादौपचारिकमृणशब्दं जायमानशब्दं च प्रयुज्य कर्मस्तुतिरियं क्रियते 'जायमानो निदानानुपशमादिति । क्लेशानां रागादोनां निदानानि कारणानि । विधिपक्षश्रवणादिति। तद्विषये हि विधौ प्राधान्याद् औपचारिकत्वासम्भवः । घोषः प्रतिवसतीति यथा न प्रतिवसनं प्रधानम् अत उपचर्यते । 25
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy