________________
आह्निकम् ]
प्रमेयप्रकरणम् गृहस्थ एव दर्शपूर्णमासादिषु सहस्रसंवत्सरपर्यन्तेषु कर्मस्वधिकृतः क्रतूननुतिष्ठतीति देवानामनृणः स्यामिति, कोऽस्य मोक्षव्यवसायावसरः ?
ननु च 'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्' इति मन्वादिस्मरणादस्त्येव तदवसरः ? न, श्रुतिवाक्यविरोधात् । एवं हि श्रूयते 'जरामर्यं वा एतत्सत्रं यदग्निहोत्रं दर्शपौर्णमासौ च, जरया ह वा एष एतस्मान्मुच्यते । मृत्युना वेति' न च कर्मप्रयोगाशक्त्या कर्मभ्यो विरन्तुं लभ्यते, स्वयमशक्तस्य बाह्यशक्त्युपदेशात्, ‘अन्तेवासी जुहुयाद् ब्रह्मणा हि स परिक्रीतः क्षीरहोता जहयाद् घृतेन हि स परिक्रीतः' अशक्तस्य च मोक्षोपायानुष्ठानेऽप्यस्य कयं शक्तिः । क्लेशानुबन्धादपि अपवर्गाभावः ।
ये हि रागादयो दोषा आत्मनश्चिरसम्भृताः । कस्तान् वञ्चयितुं शक्तः पुनरावृत्तिधर्मकान् । कामं चिरं विजित्यापि क्रोधं वा लोभमेव वा ।
पुनर्गच्छन् वशं तेषां लोकः प्रायेण दृश्यते ।। तथा हि, चिरमपि तपसि नियमितमतिरवजितविषमशरविकृतिरपि तनुपवनापनीतवसनकामिनीस्तनजघनदर्शनादेव वशं विश्वामित्रः कुसुमधन्वनो 15 गत इति श्रूयते किल ह्याख्यायिकया। अद्यत्वेऽप्येवं शतशो दृश्यन्त इति दुरुच्छेद्या दोषाः । 'वीतरागजन्मादर्शनात्, इति च विचारितमात्मपरीक्षायामवियुक्त एव दोषैर्जन्तुर्जायत इति, दोषविवृद्धिहेतवश्च रूपादयो विषयास्ते कथमिव स्वकर्मण्युदासते ? ताम्बूलं कुसुमसुगन्धयः समीराः सौधेषु प्रतिफलिताः शशाङ्कभासः । 20 वाचश्च प्रणयनवामृतद्रवाा दूतीनां दधति न कस्य रागवृद्धिम् ॥ अपि च,
मुग्धस्मितसुधाधौतमधुरालापशालिना । मुखेन पक्ष्मलाक्षीणां कस्य नाक्षिप्यते मनः ।।
___जरामर्यम्, जरामरणपर्यन्तम् । ब्रह्मणा हि स परिक्रोत इति । ब्रह्मणा वेदलक्षणेन 25 मूल्येन आपणे स्वीकृतः । क्षीरहोता अध्वर्युः ।