________________
न्यायमञ्ज·
[ नवमम् भवन्तीति मिथ्याज्ञानमुच्छेत्तव्यम्, तदुच्छित्तये च तत्त्वज्ञानमुपायः, प्रसिद्धो ह्ययमर्थः समर्थितश्च पूर्वं विस्तरतः 'तत्त्वज्ञानं मिथ्याज्ञानस्य बाधकम्' इति, तस्मान्मिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखनिवृत्तिक्रमेणापवर्ग इति ।
यद्यपि च मिथ्याज्ञानमपि जन्मकार्यमशरीरस्यात्मनो मिथ्याज्ञानानुत्पत्तेः, 5 इतरेतरकार्यकारणभावेन बीजाङकूरवदनादिप्रबन्धप्रवृत्तेन प्रवर्तमाना मिथ्याज्ञानादयो भावाः संसार इत्युच्यते, तथापि तत्कारणोच्छेदचिन्तायां कुतः प्रभृतिच्छेद उपक्रम्यतामिति विचार्यमाणे विशेषनियमाभावाद्यतः कूतश्चिदिति प्राप्ते मिथ्याज्ञानस्य प्रतिकूलमुच्छेदकारणं तत्त्वज्ञानमुपलब्ध
मिति विशेषे प्रमाणभावात् तदुच्छेद एवोपक्रम्यते । अत एव मिथ्याज्ञानमूलः 10 संसार उच्यते, तस्मिन्नुच्छिन्ने तदुच्छेदसम्भवान्न ततः प्रभृति संसार
प्रवृत्तिरिति निपुणमतिभिरपि निर्धारयितुं शक्यमनादित्वात् तस्येति, तदेवं तत्त्वज्ञानान्मिथ्याज्ञानापाये तत्कार्यदोषापायो दोषापाये प्रवृत्त्यपायः प्रवृत्त्यपाये जन्मापायः जन्मापाये दुःखापायः स एवापवर्ग इति । तदिदमुक्तम्
'उत्तरोत्तरापाये तदनन्तराभावादिति' । 15 मोक्षस्य कथामात्रसारता तदुपायानाञ्चानुष्ठानायोग्यत्वम्
आह, विदितोऽयं सूत्रार्थः, किन्त्वघटमानमनोरथविडम्बनामात्रमिदम्, . अलीकश्रद्दधानताप्रकटनं वा, दुरधिगमस्तु सङ्कटो मोक्षमार्गः ।
साध्यस्त्रिवर्ग एवैष धर्मकामार्थलक्षणः । चतुर्थः पुरुषार्थस्तु कथास्वेव विराजते । यदा प्रियवियोगादि भवत्युद्वेगकारणम् ।
तदा मोक्षकथाः कामं क्रियन्तां शोकशान्तये ।। न तूद्यमसमये तदधिगमसमर्थामुपलभामहे सरणिम्, ऋणक्लेशप्रवृत्त्यनुबन्धस्य दुस्तरत्वात्, ऋणानुबन्धस्तावत् 'जायमानो ह वै ब्राह्मणस्त्रिभिऋणै
ऋणवान् जायते, ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति । इदं 25 हि वेदे पठ्यते, तत्र प्रथममृषीणामनृणः स्यामिति ब्रह्मचर्यमाचरति, ततः
पितृणामनृणः स्यामिति कृतदारसङ्ग्रहः प्रजोत्पादनाय व्यवहरति, तदनु