________________
१
आह्निकम् ]
प्रमेयप्रकरणम् अपवर्गोत्पत्तौ क्रमः ___ आह भवत्वयमीदृगपवर्गः, स तु कथमधिगम्यते इत्युच्यताम् । उक्तमेव भगवता सूत्रकारेण, दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादिति ।
दुःखोच्छेदस्तावदपवर्ग इति कथितम्, कार्यत्वाच्च दुःखस्य कारणच्छे- 5 दात्तदुच्छेदः, कारणं चास्य जन्म, जन्मनि हि सति दुःखं भवति, जायते इति जन्म देहेन्द्रियादिसम्बन्ध आत्मनः, तदपि जन्मकारणोच्छेदादेवोच्छेद्यम्, अतस्तत्कारणं प्रवृत्तिरुच्छेद्या, तस्या अपि उच्छेदो हेतुच्छेदादिति तद्धतवो दोषा उच्छेद्याः । तेषान्तु निमित्तं मिथ्याज्ञानं तस्मिन्नुच्छिन्ने दोषा उच्छिन्ना
संसर्गात् परमाणवः परिणताः शब्दाः श्रुतेर्गोचराः। तभेदः प्रतिलब्धवर्णपदवाक्यात्माभिलापः स्वतः ।। सिद्धार्थो यमुपेत्य वक्ति किमयं प्राहेत्यसङ्केतितः ।
स्वार्थेऽक्षादिव भेदकाङ्क्षणमनाः सामान्यवेदी जनः ।। परमाणवः परस्परसंसर्गात् परिणताः स्कन्धतामापन्नाः शब्दाः श्रुतेः श्रवणस्य श्रवणस्थानस्य वा गोचरा विषयभूताः । एवं सर्वे काकवाशितादयोऽपि वाचकाः प्राप्ताः, 15 तदर्थमाह, तद्भेदस्तद्विशेषोऽभिलापो वाचको न सर्व इत्यर्थः। कोऽसौ तद्भेदः ? इत्याह प्रतिलब्धवर्णपदवाक्यात्मेति । अन्यश्च कोदृक् ? स्वतः सङ्केतनिरपेक्षः सिद्धोऽर्थो यस्य स स्वतः सिद्धार्थसम्बद्ध इत्यर्थः। कथं स्वतः सिद्धार्थोऽभिलापः ? इत्याह यमुपेत्येति । यमुपेत्य प्रतिपद्य श्रुत्या। किं वस्तु अयं शब्दः प्राहेति वक्ति जनः । किंभूतः ? असङ्केतितः सङ्केतरहितः । अतः कारणादसावभिलापः स्वतः सिद्धार्थः । किंभूतः पुनरेवं 20 वक्तीत्याह स्वार्थे सामान्यवेदी । स्वार्थे सामान्यविशेषात्मके सामान्यमानं प्रतिपद्य विशेषाकाङ्क्षणमनाः, विशेषकाङ्क्षणं विशेषार्थि मनो यस्य । दृष्टान्तमाह अक्षादिव । यथाक्षात् सामान्यविशेषात्मके पानकादी द्रव्ये ग्राह्ये सामान्यमानं गृहीत्वा विशेषाकाङ्क्षी भवति, किमिदमास्वाद्यत इति । तद्वदिति । प्रसङ्गात् श्लोका अपि व्याख्याताः । तदेतदुभयमपि अनुपपन्नम्, प्रमाणाभावादिति दृष्टान्तदान्तिकत्वेनोपन्यस्य निराकृतम्, शब्दपुद्गलपक्षस्य 25 च पूर्वं निराकृतत्वाद् दृष्टान्तत्वेनोपादानम् ।