________________
न्यायमञ्जऱ्यां
[ नवमम् तस्मान्न वेदान्तविदो विदन्ति मोक्षं न सांख्या न च सौगताद्याः ।
इत्यक्षपादाभिहितोऽपवर्गः श्रेयांस्तदत्यन्तविमोक्ष एव ।। प्रादुर्भावः । तदेवं वस्त्वन्तरं कर्मैवास्य नानाविधविकारहेतुत्वाज्जीवस्य संसारकारणम्, तत्परिक्षयात् मोक्षः" इति । यथाह अकलङ्कदेवः,
जीवस्य संविदो भ्रान्तेनिमित्तं मदिरादिवत् ।
तत्कर्मागन्तुकं तस्य प्रबन्धोऽनादिरिष्यते ।। इति । अस्यार्थः। सम्यग् वेत्तीति संवित् । तस्य संविदः स्वतो ज्ञानस्वभावस्य जीवस्य भ्रान्तेमिथ्याज्ञानस्य कर्म निमित्तं नेश्वरादिकं मदिरादिवदिति व्याख्यातम् । यदि कर्म तन्निमित्तं तहि सर्वदा कर्मसद्भावाद् मोक्षाभाव इत्याह तदागन्तुकमिति । आगन्तुकत्वेनानित्यत्वेन तत्क्षयात् कदाचिद् मोक्षसम्भव इत्यर्थः। यद्यागन्तुकं तत् कदाचिन्न भवेदपि । तदा संसारावस्थायामपि मध्ये कर्मवियोगादात्मनो मुक्ताः स्युस्तदर्थमाह, तस्य प्रबन्धोऽनादिरिष्यते । अविच्छेदेन कर्माण्यनादिप्रवाहेण स्थितानीत्यर्थः । तथा
आत्मलाभं विदुर्मोक्षं जीवस्यान्तर्मलक्षयात् ।
नाभावो नाप्यचैतन्यं [न चैतन्यम्] अनर्थकम् ॥ इति । आत्मलाभं जोवस्य विकारापगमे सति मोक्षमाहुः । कुतः ? अन्तर्मलक्षयाद्धेतोः । स त्वात्मलाभलक्षणो मोक्षो नाभावः सन्तत्युच्छेदलक्षणो यथाहुर्बोद्धाः। नाप्यचैतन्यं बुद्धिशून्यस्यावस्थानं यथाहुर्वैशेषिकादयः । नाप्यनर्थकं दृश्यार्थशून्यचिन्मात्रं यथाहुः । साङ्ख्याः । किन्तु अनन्तज्ञानादिगुणयुक्तस्यावस्थानमित्यर्थः । तथा अपरमाहुः,
शब्दः पुद्गलगपर्यायः स्कन्धश्छायातपादिवत्।
बुद्धिकार्यविशेषात्माभिलापः स्वार्थगोचरे ॥ इति । पुद्गलानां परमाणूनां पर्यायः क्रमभावो विकार परिणामविशेषः शब्दः। स च स्कन्ध, अनन्तानन्तपरमाणुवत्त्वसंसिद्धेः । न तु दृष्टः क्वचित् स्कन्धरूपपर्यायः परमाणूनाम् । तदाह, छायातपादिवदिति । यथा छायारूप आतपादिरूपश्च पुद्गलपर्यायः स्कन्धः
तद्वच्छब्द इत्यर्थः । बुद्धिरेव श्रावणं ज्ञानमेव कार्यविशेषात्मा कार्यविशेषरूपं यस्य स 25. बुद्धिकार्यविशेषात्मा। एवमपि समुद्रघोषादिरपि वाचकः प्राप्त इत्याह, स्वार्थगोचर
इति । यो बुद्धिकार्यविशेषात्मा स्वार्थविषये बुद्धया लक्ष्यमाणः स्वार्थे यो व्याप्रियते स बुद्धिकार्यविशेषात्मा अभिलापः । अभिलाप्यतेऽनेनेत्यभिलापः वाचको न सर्व इत्यर्थः । तथापरमाह,