________________
आह्निकम् ]
प्रमेयप्रकरणम् अर्हत्पक्षेऽपि यद्रूपमन्यसापेक्षमात्मनः । न केवलस्य तद्रूपमित्यस्मन्मततुल्यता ।। विकारित्वन्तु जीवानामत्यन्तमसमञ्जसम् ।
शब्दपुद्गलवच्चैतत् प्रत्याख्येयमसम्भवात् ।। न केवलस्य तद्रूपमिति । तज्ज्ञानादिलक्षणं रूपम्, कैवल्यावस्थायामपि तस्य रूपस्याभ्युप- 5 गमे ऐकान्तिकत्वात् तस्य रूपस्यानैकान्तिकरूपत्वहानिप्रसङ्गात् । विकारित्वं तु जीवानामित्यादिना जैनमतं निराकरोति । इदं तेषां मतं भवति बोद्धा पुरुषः, स च कायमात्रः सङ्कोच विकासधर्मा मणिप्रभावादिति । तदनेन निराकरोति एतदभ्युपगमे हि पुरुषस्यानित्यत्वं प्राप्नोति, कायपरिमाणत्वेनावयवित्वापत्तेः । निरवयवे एवंरूपपरिमाणासम्भवाद् अमूर्तस्य च व्योमादेविभुत्वदर्शनात्, परिमाणवतः क्रियावतश्चावश्यमनित्यत्वात्, 10 सत्यपि बोद्धत्वे तस्य सर्वार्थग्रहणायोगादित्यादिदूषणाघ्रातत्वादसम्भवित्वमस्य दर्शनस्य । यथा शब्दपुद्गलाः सूक्ष्माः स्थूलशब्दात्मना विक्रियन्ते विपरिणमन्ते तथा जीवपुद्गलाः सूक्ष्मा जीवात्मना विक्रियन्ते विपरिणमन्त इति यद् मतं तदेव तु ग्रन्थकृता दूष्यत्वेनास्मिन् श्लोके विवक्षितमिति लक्ष्यते । दृष्टान्त-दार्टान्तिकयोयेवं स्फुटतरोऽर्थोऽवगम्यत इति । यथा वा अकलङ्कादयः स्थितास्तथाप्यसम्भवित्वमेव । ते ह्याहुः 15 "ज्ञानसन्तानपक्षस्तावदनुपपन्नः, सर्वबुद्धिष्वेलस्य चेतनस्यानुवर्तमानस्योपलम्भात् । तत्र किं तस्य ज्ञातृत्वं ज्ञानसमवायाद् उत स्वतः ? तत्र न तावद् ज्ञानसमवायात् । समवायस्यैकत्वाद् व्यापकत्वाच्च यावत् तस्यासौ समवायो व्यतिरिक्तेन ज्ञानेन ज्ञातृत्वमापादयति तावच्चेतनस्य घटादेरपि किमिति नापादयति। अथ समवायस्य स्वतः शक्तिविशेषः तादृगस्ति येनात्मना एव ज्ञातृत्वमापादयति नान्येषामिति, तात्मन एव तादृशः शक्ति- 20 विशेषो ज्ञातृत्वाख्यः कल्प्यताम्, किं समवायस्य तत्कल्पितेन । एवं तावद् ज्ञातृतास्वभाव आत्मा तस्य ये पर्यायभाविनो मिथ्याज्ञातृत्वादयः स्वभावविशेषास्ते किं तद्धर्मसम्बन्धाद् आहोस्वित् तेन रूपेण विकारित्वात् ? न तादद् धर्मसम्बन्धाद् धर्मे ह्यस्योपकारः कार्यः, तेन च धर्माणाम्, उपकारप्रभावितत्वात् सम्बन्धस्य । न चाप्रवर्तमान उपकार्य उपकारको वा भवति । प्रवर्तते चेत् पूर्वमप्रवृत्तस्य प्रवर्तनाद् विकारित्वम् । एवमस्य स्वतश्चित्स्व- 25 भावस्य जीवस्य कर्मसम्बन्धवशाद् मिथ्यादर्शनादेविकारस्योदयो दृष्टः । वस्त्वन्तरसम्बन्धवशात् त्वस्य विकारयोगो यथा मदिराविषादिसम्बन्धाद् मूछितत्व-मृतत्वादिविकार
न्या० म०२