________________
न्यायमञ्जा
[ नवमम्
तुर्यावस्थातिगं रूपं यदाहुः केचिदात्मनः । प्रमाणागोचरत्वेन कल्पनामात्रमेव तत् ॥ संवित्प्रसवसामर्थ्य सामग्रीसन्निधानतः ।
यदि नामात्मनोऽस्त्यस्य तावता न चिदात्मता ।। यदि तु दर्शनशक्तियोग्यतामात्रमेव पुंसश्चैतन्यमुच्यते तहि, तथाविधस्य . तस्य कैवल्यस्यास्माकीनमोक्षसदृक्षत्वमेव योग्यतामात्रसम्भवेऽपि दृश्येन्द्रियसंयोगादेः सामग्र्या वैकल्यावस्थायामात्मनो द्रष्टुत्वासम्भवाद् दर्शनशून्यस्य चान्यस्य चैतन्यस्य निरस्तत्वादिति ।
निर्वाणादिपदाख्येयमपवर्गन्तु सौगताः ।
सन्तत्युच्छेदमिच्छन्ति स्वच्छां वा ज्ञानसन्ततिम् ॥ एतद् द्वितयमप्युक्तं पूर्वमेव, तद् ध्वस्तञ्च, ज्ञानसन्ततिनित्यश्चात्मा समर्थितः ।
सन्तत्युच्छेदपक्षस्तु नैयायिकमतादपि । शोच्यो यत्राश्मकल्पोऽपि न कश्चिदवशिष्यते ॥
यत्रार्थस्मरणे नष्ट ह्यद्रष्ट्रदृग्व्यवस्थितिः । अभावभावे संज्ञेयः सुषुप्त इति योगिभिः : ॥ ३ । अलुप्तवेदानावृत्तेरवस्थात्रयभाविनः ।
रूपस्य वेदिकामाहुस्तुर्यावस्थां मनीषिणः ॥ ४ । अवस्थाचतुष्टयोत्तीर्णन्तु यदात्मनश्चिद्रूपतया स्वभावेनावस्थानं सा तुर्यातीता स्थिति20 रिति । आह च
त्रिप्रकारं यदा वेद्यं न वेत्ति स्वव्यवस्थितः ।
वेदकत्वं तदानश्यत् तुर्यातोतस्थितिस्तु सा ॥ इति । तं तुर्यावस्थातिगं रूपमित्यादिना निराकरोति ।
स्वच्छां वा ज्ञानसन्ततिमिति । समुच्छिन्नसकलवासनात्वाद् विषयाकारोपप्लव25 रहिताम् ।